SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ 16 न्यायमञ्जरी स्वलक्षणानां देशकालादिभेदेनानन्त्या'त्' * वर्गीकरणं पुरुषायुषशतेनापि न शक्यक्रियमिति समुदायोऽपि न तदाश्रयः । तस्मात् सर्वसाधारणं प्रतिपिण्डं परिसमाप्तं किमपि नूतनं अगोव्यावृत्तेरधिकरणं अभिधातव्यम् । तच्च गोत्वमेव, तस्मिन्नङ्गीकृते वा किमगोव्यावृत्तिकल्पनाया' सेन' ! [ प्रतियोग्यग्रहाच अपोहग्रहणासंभवः ] न च अपि च न केवलमाश्रयाभावात्तदग्रहणम्, किन्तु य एव ते केचि 'दपोह्या' अगोरूपास्तुरगादयः तदग्रहणेऽपि तदपोहो दुर्ग्रह एव । तेषामानन्त्यात् ग्रहणं संभवति । नापि वर्गीकरणनिमित्तमेषां किञ्चि दस्ति । अश्वादयश्व विधिरूपतया भवन्मते 'न गृह्यन्ते, किन्त्वन्यव्यवच्छेदेनैवेति तेषामपि व्यवच्छेद' ग्रहणे सैव वार्तेति नेदानीं विकल्पैः क्वचिदपोहो विषयीकर्तुं शक्यते । निर्विकल्पेन च न कश्चिद्व्यवहार इति सकल यात्रोत्सादप्रसङ्गः ।। [ अपोहवादे पदानां पर्यायत्वप्रसङ्गः ] किंच य एते शाबलेयादिशब्दाः, ते सर्व एवापोह 'वाचित्वा विशेषात् पर्यायाः स्युः | अपोह्यभेदाददोष इति चेत्-न-अपोहानां भेदाभावात् । भिद्यमानत्वे वा स्वलक्षणवदेषां वस्तुत्वप्रसक्तिः ।। वर्गीकरणं - अनुगमकरणम् । स्वलक्षणानां व्यावृत्तस्वरूपत्वादिति हेतुः ॥ + तदाश्रयः - अगोव्यावृत्तेराश्रयः ॥ * * एषां -अगोरूपाणां तुरगादीनाम् । समानाकृतिष्वपि गोत्वसामान्यं विना अनुगमस्यासंभवे भिन्नाकृतीनां तुरगमहिषादीनां का वार्तेत्यर्थः ।। 8 विकल्पैः सविकल्पज्ञानैः ॥ • यात्रा - लोकयात्रा - लोकव्यवहारः ॥ ॥ अनुवृत्तं अपरमार्थं, व्यावृत्तमेव परमार्थसदिति हि तन्मतम् 4 योग्या - क 1 च-घ ० व्यवच्छेद्य-क 2 न-घ 8 सः-छ वादित्वा - क. 8 गृ-घ
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy