SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ - 15 पञ्चममाह्निकम् * स्वतन्त्रतया घटवदवगम्यते । तदयमन्याश्रितो वक्तव्यः। कश्च तस्याश्रय इति चिन्त्यम् ।। __[अपोहस्याश्रयानुपपत्तिः] न तावत् गोस्वलक्षणमाश्रयः, तिस्य 'विकल्पभूमित्वाभावात् । * नाप्यवान्तरसामान्यं शाबलेयत्वादि तदाश्रयः, तस्यापि हि सामान्यात्मत्वेन अपोहस्वभावत्वात् । अभावस्य 'चाभावाश्रयत्वानुपपत्तेः । न च शाबलेयसामान्यमगोनिवृत्तेराश्रयः, तद्धि अशाबलेयनिवृत्तश्रियतां प्रतिपद्येत । न ह्येवमुपपद्यते, अशाबलेयो न भवतीति गौः, किन्तु शाबलेयोऽशाबलेय इति | अशाबलेयव्यावृत्तिर्हि गोष्वपि बाहुलेयादिष्वस्ति ।। [अपोहस्य स्वलक्षणावृत्तित्वम्] .. अथ शाबलेयादिस्वलक्षणसमुदायं अगोव्यावृत्तेराश्रयं ब्रूयुः । सोऽप्यघटमान एव, समुदायिव्यतिरेकेण तस्यानुपलंभात् । समुदायिनां च *स्वतन्त्रतयेति । यद्यपि गुणक्रियादीनामपि नियमेन द्रव्याश्रितत्वात् नास्ति स्वातन्त्र्यम् , अथापि नात्र तादृशः स्वातन्त्र्याभावः अभावस्योच्यते। स्वरूपलाभ एव अभावः परतन्त्रः, गुणादिस्तु न तथा। अभावो हि प्रतियोगिनिरूप्यः॥ * तस्येति। नो चेत् स्वलक्षणज्ञानमपि विकल्पः स्यात् ॥ . * अवान्तरत्वं शाबलेयत्वादेः गोत्वापेक्षया व्याप्यत्वात् , व्यक्त्यपेक्षया व्यापकत्वात् ॥ - अभ्युपगमेपि प्रकृते नोपयोग इत्याह-न चेति । तद्धि-शाबलेयत्वं हि। 'गौः अशाबलयो न भवति इति' इत्यन्ययः ।। अत्रापि 'न भवति' इत्यनुकर्षः। 'गौः अशाबलेयो न भवति' इत्यस्यासम्भवे हेतुमाह-अशाबलेयेत्यादि || बाहुलेयः खलु गौः अशाबलेय एव भवति । अतः तन्निषेधः कथंकारं गवि भवेदित्यर्थः ।। शाबलेयादि । आदिना बाहुलेयादीनां स्वलक्षणविशेषाणां ग्रहणम् ॥ 1 अश्ववि-घ. 2 पि-घ. 3 अ-घ.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy