________________
14
न्यायमञ्जरी विकल्पाः 'अगौर्न भवति' इति; न तु गोः स्व'लक्षणग्रहणे *तेषां व्यापारः, प्रागेव गृहीतत्वात् ।।
[विकल्पानामपूर्ववस्तुविषयकत्वं न संभवति] . अथ ब्रूयात्-नानाविशेषनिकरकल्माषितवपुषस्तस्यार्थस्य किंचिद्विशेषणं प्रागगृहीतं विकल्पैर्गुह्यत इति तदप्ययुक्तम्-नानाविशेषणनिकररूषितस्यापि वस्तुनः तिद्विशेषणोपकारशक्तिव्यतिरिक्तात्मनोऽनुपलम्भात् । तदभेदे सति तद्विशेषणोपकार्यवस्तुस्वरूपग्रहणवेलायामेव तत्खचितग्रहणसिद्धेः विकल्पान्तराणामानर्थक्यमेव । तदुक्त्तम्
'यस्यापि नानोपाधे/हिकार्थस्य भेदिनः । 'तस्यापि नानोपाध्यात्तशक्तिर्न ह्यतिरिच्यते ।। नानोपाध्युपकाराङगशक्त्यभिन्नात्मनो ग्रहे ।
सर्वात्मनोपकार्यस्य को भेदः स्यादनिश्चितः' इति ।। तस्मादपोहविषयाः शब्दाः विकल्पाश्चेति ।।
[भट्टोक्तं अन्यापोहदूषणम् ] | ननु ! अपोह वादविषये, महती दूषणवृष्टिमुत्ससर्ज भट्टः । तथाहि – अपोहो नाम व्यावृत्तिः-अभाव इष्यते । न चाभावः
* तेषां-विकल्पानाम् । प्रागेव-निर्विकल्पकाल एव ॥
+ तद्विशेषणेत्यादि-विशेषणं हि विशेष्यं इतरस्माब्यावर्तयति। अतश्च विशेष्यस्वरूपमेव विशेषणेन परिवर्त्यत इति वक्तव्यम् । 'उपयन्नपयन् धर्मः विकरोति हि धर्मिणम्' इति हि न्यायः । एवञ्च विशेषणेन विशेष्यस्य कश्चन उपकारः विशेष्येऽतिशयाधानरूपः वक्तव्यः । तेन च विशेषणे तदनुगुणशक्तिः, विशेष्येऽपि अतिशयस्वीकारांनुगुणा शक्तिश्च स्वीकार्या। तथा च विशेषण-उपकारशक्तीनां द्रव्या देऽनवस्था। अभदे पूर्वोत्तरग्रहणयोर्विषयाधिक्यं न स्यात् ।।
1 गोस्व-घ.
2 तस्यापि....क.ख.घ.
3 वि-घ.