SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ 13 पञ्चममाह्निकम् विकल्पविषये वृत्तिरिष्टा शब्दानुमानयोः । अवस्तुविषयाश्चैते विकल्या इति वणितम् ।। अपोहेनव शब्दानुमाननिर्वाहः ] ननु ! विकल्पानामपि विषयः यद्यनुगामी कश्चिन्नेष्यते, तदुत्सीदेतामेव शब्दानुमाने-बाढमस्ति विकल्पानामनुस्यूतो विषयः । स तु न - वास्तवः । कः पुनरसाविति चेत् ; उच्यते । अतद्रूपपरावृत्तिस्वभावामबहिर्गतम् । .. बहिस्स्थमिव सामान्यं आलम्बन्ते हि निश्चयाः ।। - या च भूमिविकल्पानां स एव विषयो गिराम | अत एव हि शब्दार्थ अन्यापोहं प्रचक्षते ।। [विकल्पानामन्यापाहविषयत्वम् ] तथा हि-न विकल्पा वस्तु स्पृशन्ति । कुतः ? .. 'एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम । कोऽन्यो न दृष्टो भागः स्यात् यः प्रमाणैः परीक्ष्यते ।।' (प्र. वा. 1-44) तस्मात् भ्रमनिमित्तसमारोपिताकारान्तरनिषेधाय तेषां प्रवृत्तिः । यथा' रूपसाधर्म्यसमारोपितरजताकारनिबारणाय शुक्त्तौ प्रमाणान्तरं प्रवर्तते 'नेदं रजतम्' इति; तथेहापि शाबलेयादिस्वलक्षणे निर्विकल्पेन' सर्वात्मना परिच्छिन्ने कुतश्चिनिमित्तादारोपितमगोरूप मिव व्यवच्छिंतिदं * अबहिर्गतं-स्वलक्षणाख्यवस्तुनः अनतिरिक्तं । अन्यथा हि अतिरिक्तजातिरिव अतिरिक्तापोहांगीकारः स्यात् । अत एव बहिस्थमिव ॥ । एतस्येत्यादि-अयं विषयः पूर्वसंपुटे 239 पुटे द्रष्टव्यः । 1. यथार्थ-घ. 2 नापि-घ. 3 मे-घ.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy