________________
12
न्यायमञ्जरी 'एकप्रत्यवमर्शस्य हेतुत्वाद्धीरभेदिनी।
एकधीहेतुभावेन व्यक्तीनामप्यभिन्नता' इति ।। तस्मादौपाधिकत्वादनुवृत्तबुद्धः न सामान्यं किंचि वास्तव'म
स्तीति ।।
[अतिरिक्तसामान्याभावेऽप्यनुमानशब्दयोः प्रवृत्तियुज्यते ] .. तत्राह -
अनिष्यमाणे सामान्य ननु शब्दानुमानयोः । कथं प्रवृत्तिः *सम्बन्धग्रहणाधीनजन्मनोः ।। न हि व्यक्तिषु सम्बन्धः गृहीतुमिह शक्यते ।
स हि व्यक्तिषु गृह्येत सर्वास्वेकत्र वा क्वचित् ।। न सर्वासु ; देशकालादिभेदेन तदानन्त्यादशंक्यत्वात्। नैकस्यां; व्यभिचारात्। ततोऽन्यत्रापि स शब्दः प्रवर्तमानो दृश्यते। अगृहीतसम्बन्धे च न शब्दलिङगे प्रतीतिमुत्पादयितुमुत्सहेते।
-उच्यते-स्यादेतदेवं, यदि प्रत्यक्षविषये स्वसक्षणे शब्दलिङगयो प्रवृत्तिः स्यात् ।।
[शब्दानुमानयोरवस्तुविषयत्वम् ] . ननु ! प्रत्यक्षविषये तयोर्वृत्तावनिष्यमाणायां अनवस्थादिदोषोपघातादप्रवृत्तिरेव स्यात् – मैवं वोचः-कथमसकृदभिहितमपि (पूर्वसंपुटे 88 पुटे) न बुद्ध्यसे ?
* सम्बन्धः-अनुमितौ व्याप्त्याख्यः, शब्दे शक्त्याख्यः ।।
। यस्यां व्यक्तौ शक्तिंग्रहः, व्याप्तिग्रहो वा तदितरव्यक्ती वा शब्दानुमानयोः प्रवृत्तिदर्शनात् ।
* अनवस्थादीत्यादिना-तन्मूलकशक्तिग्रहव्याप्तिग्रहासंभवः ग्राह्यः ।।
1 द-घ
३ यादिषु-ध
येन-क.