________________
__11
पञ्चममाह्निकम्
[अनुवृत्तबुद्धेरौपाधिकत्वम् ] ' 'कः पुनरसावुपाधिरिति चेत् - एकार्थक्रियाकारित्वमिति ब्रूमः ।।
यदेव वाहदोहादि* कार्यमेकेनं ज न्यते । गोपिण्डेन, तदेवान्यः इति तेष्वनुवृत्तधीः ।।
- [अननुगतस्याप्यनुगतप्रतीतिजनकत्वमस्त्येव ] ननु ! प्रतिव्यक्ति कार्यो भिन्नमेव - सत्यम् - भेद बुध्यभावाच' तदेकमित्युपचर्यते ।।
* कर्कादिकार्यादन्यत्वं यथा ह्येतस्य दृश्यते ।
न तथा खण्डकार्यस्य मुण्डकार्याद्विभिन्नता ।। ननु ! तथा मा भूत। न त्वभिन्न व खण्डमुण्डयोः कार्यम् । 'बाढम्। 'दर्शनमेव तर्हि तयोरेकं भविष्यति; तच्चाभिन्नम् ॥
[ एकाकारानुव्यवसायजनकत्वमेवानुगतव्यवहारनियामकम् ] नन् ! दर्शनमपि प्रतिव्यक्ति भिन्नमेव। सत्यम् ! स्वपृष्ठभावि प्रत्यवमख्यिकार्यक्यादेकमित्युच्यते । यथैव शाबलेयादिपिण्डदर्शने "सति गौरि त्यनन्तरमवमर्शः, तथैव बाहुलेयपिण्डदर्शनेऽपि गौरित्येवा वमर्श इति तदेकत्वमुच्यते । तदुक्तम् (प्र. वा. 1-110)
. . * गोविशेषेण अनडुहा वाहः, धेन्वा दोहः ॥
कार्य भिन्नम्-कार्यस्वरूपं ह्यननुगतमेव । कथं तेनानुगतधीः?
खण्डः - खण्डशृङ्गः गौः, मुण्डः-शृङ्गरहिता गौ:- गवाश्वयोः यथा कार्यभेदः, न तथा खण्डमुण्डयोः ॥
तथा अश्वकार्यात् गोकार्यस्य मा स्वभेदः। खण्डमुण्डयोरपि कार्य भिन्नमेव हि। कथं तबँक्यव्यवहार इत्याक्षेपाशयः ॥
• दर्शनं-ज्ञानं एकरूपमेव खलु ॥
1 यः-घ
- बुद्धिभयात्-ख ३ व न-क
द-ख - sपि-ख 'त्येवा-ख.