________________
10 .
न्यायमञ्जरी येष्वनुगतं, तेषु बुद्धयाऽननुसन्धीयमानेषु तद्वत्तिसामान्यग्रहणासंभवात् । न चानुसन्धानसामर्थ्य बुद्धरस्ति* ||
अत एव न ते सम्यगध्यक्षजज्ञानवेदिनः।
अभेदवृत्ति प्रत्यक्षं आहुरद्वैतवाग्छया || तस्मात् भेदाविषयत्वात् प्रत्यक्षस्य न तद्ग'म्य सामान्यम् ।।
[ अनुवृत्तप्रतीतीनां विकल्परूपत्वम् ] ननु ! एवमपलूयमाने सामान्ये गौगौरिति शाबलेयादिषु योऽयमनु वृत्तः प्रत्ययः, स कथं समर्थयिष्यते ? ___ उक्तमत्र (पूर्वसंपुटे 240 पुटे)-विकल्पमात्रमेष प्रत्ययः। विकल्पाश्च नार्थाधीनजन्मान इति । तथा च परपरिकल्पितेषु सत्तादिसामान्येष्वपि *सामान्यमित्यनुवृत्तविकल्पाः प्रवर्तन्त एव । न च सामान्येषु सामान्यान्तराणि संभवन्ति ; 'निस्सामान्यानि सामान्यानि' इत्यभ्युपगमात् ।।
औपाधिक 'एष सामान्येष्वनुगतविकल्प इति चेत् - आयुप्मन् ! गवादिष्वपि °कं चिदुपाधि'विशेष' मवलम्ब्य गौगौरित्यनुस्यूतबिकल्पो भविष्यति ।।
* ज्ञानस्य स्वलक्षणमात्रग्रहणसमर्थत्वादिति हेतुरूह्यः ।।
ये अद्वैतवान्छया प्रस्यक्षं सामान्यविषयकमाहुः, ते प्रत्यक्षस्वरूपं न सम्यग्जा नन्तीति भावः । अधिकं पूर्वसंपुटे 251 पुटे द्रष्टव्यम् । . सत्ताद्रव्यत्वापृथिवीत्वदिषु, घटत्वादिषु व्याप्यव्यापकभावाना पनेस्षु च जातिषु 'जातिः' इत्यनुगतव्यवहारे सत्यपि न हि तत्र जातित्वं नाम अनुगता काचिजातिरंगीक्रियते ; प्रकृते पि तथैव ॥
६ औंपाधिकः-नित्यत्वे सत्यनेकसमवेतत्वादिरत्र उपाधिः । स च नानुगतः॥ • कं चिदिति-अन्ततः बुद्धि विशेषविषयत्वादिरेव उपाधिः ॥
1 तं-ख
2 सामान्यानि-ख
एषु-ख
लेश-ग.