SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ 444 न्यायमञ्जरी रागादिप्रेर्यमाणो हि कर्माण्यारभते नरः । दीर्घदीर्घाः प्रतायन्ते यैर्धर्माधर्मवासनाः ॥ यः प्रवृत्त्यनुबन्धश्च हेतुरन्यस्य जन्मनः । 'तेन जन्मान्तरेगान्या जन्यते कर्मवासना ।। *ए'कमेवेदृशं कर्म कर्तुमापतति क्वचित् । जन्मायुतशतेनापि यत्फलं भुज्यते न वा ॥ क्लेशकर्मानुबन्धोत्था जन्मदुःखादिशृङखला। . पुनरावर्तमानैषा केनोपायेन भज्यताम् ? *विना फलोपभोगेन न विनाशोऽस्ति कर्मणाम् । तेषां ज्ञानाग्निना दाह इति श्रद्धाविज़म्भितम् । कार्यकारणभावो हि शास्त्रादेवावधारितः । . कर्मणां च फलानां च स कथं वा निवर्तताम || , न च प्य ज्ञानसापेक्षं कर्मेष्टं बन्धकारणम्। येनात्मज्ञानयुक्तानां तदुदासीत तान् प्रति ॥ अज्ञाननरपेक्ष्यण कर्मणां स्वभाव एवैषः, यत् फलाविनाभावि. त्वमिति ॥ तस्मादित्थमृणक्लेशप्रवृत्त्याद्यनुबन्धतः । न मोक्षसिद्धिरस्तीति तदर्थो विफलः श्रमः ॥ * एकमेव कम निकजन्मारंभकमपि भवति ॥ + 'नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि' इति हि वचनम् ॥ 1 ए-ख भु-ख 'न्य-ख
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy