________________
445
नवममाह्निकम्
अशक्येऽर्थे वृथा 'यत्न इति मत्वा मनीषिभिः । ___ मोक्षचर्चाः परित्यज्य स्वे गृहे सुखमास्यताम् ॥
[ मोक्षस्य दुरधिगमत्वशङ्कानिरासः ] - अत्राभिधीयते—यत्तावदुक्तं 'ऋणानुबन्धात्' इति-तदयुक्तम्विधिपदाश्रवणात् औपचारिकम् ऋणशब्दं जायमानशब्दं च प्रयुज्य कर्म. स्तुतिरिय क्रियते 'जायमानो ह वै बाह्मण' इति । न तव्यतिरिक्त पुरुषार्थविषयप्रयत्नप्रतिषेधो विधीयते ॥
तथा हिं-ऋणशब्दोऽयं विषयान्तरे मुख्यार्थः प्रसिद्धः, यत्रोत्तमः सलाभममुतः प्रतिग्रहीष्यामि' इति धनमधमर्णाय प्रयच्छति। अधम:ोऽपि 'सलाभमस्मै प्रदास्यामि' इति मत्वा गृह्णाति। सोऽयं ऋणसब्दस्य मुख्यो* विषयः इह नास्त्येव ॥
जायमानोऽपि मुख्यः उत्पद्यमानो हि मातुः कुक्षिकुहारान्निस्सरन्नभि धीयते । न चासौ तपस्वी बालः कर्मभिरभिसंबध्यते। तस्मात् ह्मचर्यम्, अपत्योत्पादनम्, अध्वरप्रयोग इति त्रितयमिदम् , ऋणवदवश्यकर्तव्यमिति कर्मस्तुतिरियमौपचारिक पदप्रयोगादगम्यते। न चैतावता मोक्षव्यवसायावसरविरह इति परिशङकनीयम् , आश्रमान्तरस्य तदोपयि कस्य दर्शनात् ॥
[ कर्मणां विरतिः आवश्यकी] ननु! मरणावधि दर्शपूर्णमासादिधर्मोपदेशात् कथमाश्रमान्तरग्रहणम्-न-जरामर्यवादस्याप्यपरित्यागप्रतिपादनाय कर्मप्रशंसार्थत्वात् ।
-
* जन्मान्तरीय ऋणविषयत्वे लोकव्यवहारवैयाकुली दृढा ॥
.
___1 यासंपरित्यज्य-
च
बा -ख
: मृणवप-च