________________
442
न्यायमञ्जरी
वेदे पठ्यते। तत्र प्रथमं 'ऋषीणामनणः स्याम्' इति ब्रह्मचर्यमाचरति। ततः 'पितृणामनृणः स्याम्' इति कृतदारसङग्रहः प्रजोत्पादनाय व्यवहरति । तदनु गृहस्थ एव दर्शपूर्णमासादिषु सहस्रसंवत्सरपर्यन्तेषु कर्मस्वधिकृतः क्रतूननुतिष्ठतीति 'देवानामनणः स्याम्' इति । कोऽस्य मोक्षव्यवसायावसरः?
[ मोक्षस्य श्रुतिविरुद्धत्वम् ननु च!
'ऋणाणि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्'इति मन्वादिस्मरणात अस्त्येव तदवसरः-ज-श्रुतिवाक्यविरोधात् ।' एवं हि श्रूयते *जरामयं वा एतत्सत्रं यदग्निहोत्रं दर्शपूर्णमासौ च जरया : ह वा एष एतस्मान्मुच्यते मृत्युना वा' इति । न च कर्मप्रयोगाशक्त्या कर्मभ्यो विरन्तुं शक्यते ; स्वयमशक्तस्य बाह्यशक्त्युपदेशात् । अन्तेवासी वा जुहुयात, ब्रह्मगा हि स परिक्रीतः। क्रीतो वा जुहुयात' 'धनेन हि स परिक्रीतः। अशक्तस्य च मोक्षोपायानुष्ठानेऽप्यस्य कथं शक्तिः ?
[ रागादीनां अवर्जनीयस्वम् ] . क्लेशानुबन्धादप्यपवर्गाभावः
ये हि रागादयो दोषाः आत्मनश्चिरसंभृताः। कस्तान शमयितुं शक्तः पुनरावृत्तिध मकान ॥
* जरामर्यम्-जरामरणावधिकम् ॥ + ब्रह्म-वेदः॥
1 लभ्य -ख,
क्षीरहोता-ख,
' घृतेन-ख.