________________
441
. नवममाह्निकम् कारणं तत्त्वज्ञानमुपलब्धमिति विशेष प्रमाणाभवात् तदुच्छद एवोपकम्यते ॥
अत एव मिथ्याज्ञानमूलः संसार उच्यते। तस्मिन् उच्छिन्ने तदुच्छेदसंभवात, न ततः प्रभृति संसारः प्र'वर्ततं' इति निपुणमतिभिरपि निर्धारयितुं शक्यम्, अनादित्वात्तस्येति ॥
तदेवं तत्त्वज्ञानान्मिथ्याज्ञानापाये तत्कार्यदोषापायः, दोषापाये प्रवृ. त्यपायः, प्रवृत्त्यपाये जन्मापायः, जन्मापाये दुःखापायः- स एवापवर्ग इति । तदिदमुक्तं 'उत्तरोत्तरापाये तदनन्तरा पाया त' इति ॥
_[ मोक्षस्य दुरधिगमत्वशंका] आह-विदितोऽयं सूत्रार्थः ; किन्त्वघटमानमनोरथविडम्बनामात्रमिदम् अलीकश्रद्दधानताप्रकटनं वा। दुरधिगमस्तु संकटो मोक्षमार्गः ॥
'. साध्यस्त्रिवर्ग एवैषः धर्मकर्मार्थलक्षणः ।
चतुर्थः पुरुषार्थस्तु कथास्वेव विराजते । यदा प्रियवियोगादि भवत्युद्वेगकारणम् ।
तदा मोक्षकथाः कामं क्रियन्तां शोकशान्तये ॥ न! तूद्यमसमये* तदधिगमसमर्थामुपलभामहे सरणिम् , ऋणक्लेशप्रवृत्त्यनुबन्धस्य दुस्तरत्वात् ॥ ..
[ ऋणत्रयस्य दुस्तरत्वम् ] . ऋणानुबन्धस्तावत्-'जायमानो ह वै ब्राह्मणः त्रिभिर्ऋणैर्ऋणवा
। ब्रह्मचर्येण ऋषिभ्यः यज्ञेन देवेभ्यः प्रजया पितृभ्यः' इतीदं हि * अभाववैराग्यवतामुपदिश्यताम्, न तूत्साहवतामित्यर्थः ॥
1वृत्त-ख
भाव-ख