________________
440.
न्यायमञ्जरी
[ मोक्षोपायविचारः] आह-भवत्वयमीदृगपवर्गः। स तु कथमधिगम्यत इत्युच्यताम् । उक्तमेव भगवता सूत्र कारेणदुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये
तदनन्तरापायादपवर्गः ॥ १-१-२॥ दुःखोच्छेदस्तावदपवर्ग इति कथितम् । कार्यत्वाच्च दुःखस्य कारणोच्छेदात्तदुच्छेदः। कारणं चास्य जन्म। जन्मनि सति हि दुःखं भवति । जायते इति हि जन्म देहेन्द्रियादिसंबन्धः आत्मनः। तदपि जन्मकारणोच्छेदादेवोच्छेद्यम्। अतस्तत्कारणं प्रवृत्तिरुच्छेद्या। तस्या . अपि हेतूच्छेदात् उच्छेद इति तद्धतयो दोषाः उच्छेद्याः। तेषां तु 'नमित्तं मिथ्याज्ञानम्। तस्मिन्नुच्छिन्ने दोषा उच्छिन्ना भवन्तीति मिथ्या ज्ञानमुच्छेद्यम्। तदुच्छेदे च तत्त्वज्ञानमुपायः। प्रसिद्धो ह्ययमर्थः' समर्थितश्च पूर्व विस्तरतः तत्त्वज्ञानं मिथ्याज्ञानस्य बाधकमिति। तस्मा तत्त्वज्ञानान्मिथ्याज्ञानदोषप्रवृत्तिजन्मदुःखनिवृत्तिक्रमेणापवर्ग इति॥
[ तत्त्वज्ञानस्य मिथ्याज्ञाननिवर्तकत्वम् ] . , यद्यपि मिथ्याज्ञानमपि जन्मकार्यम*, अशरीरस्यात्मनो मिथ्याज्ञाना. नुपपत्तेः । इतरेतरकार्यकारणभावेन बीजाङकुरवदनादिप्रबन्धप्रवृत्तेन वर्तमाना मिथ्याज्ञानादयो भावाः संसार इत्याख्यायते-तथापि तत्का रणोच छेदचिन्तायां कुतः प्रभृत्युच्छेद उपक्रम्यतामिति विचार्यमाणे विशेषनिय माभावात यतः कुतश्चिदिति प्राप्ते, मिथ्याज्ञानस्य प्रतिकूलमुच्छेद.
_* अयं प्रायोवादः, तत्त्वज्ञानस्यापि शरीराधीनत्वात् ॥
1 दि-ख.
.न्मि-ख,