________________
439
नवममाह्निकम् मात्मनो द्रष्टत्वासंभवात्। दर्शनशून्यस्य चान्यस्य चैतन्यस्य निरस्तत्वादिति ॥
[बौद्धसंमतमोक्षविमर्श:] निर्वाणादिपदाधेयमपवर्ग तु सौगताः । *सन्तत्युच्छेदमिच्छन्ति, स्वच्छां वा ज्ञानसन्ततिम् ।। मतद्वितयमप्येतत् प्रत्युक्तं पूर्वमेव यत् । ध्वस्तश्च ज्ञानसन्तानः नित्यश्चात्मा समथितः ।। सन्तत्युच्छेदपक्षस्तु नैयायिकमतादपि । शोच्यो यत्राश्मकल्पोऽपि न कश्चिदवशिष्यते ।।
[जैनसंमतमोक्षविमर्श:] अर्हत्यक्षेऽपि यद्रूपं अन्यसापेक्षमात्मनः । • न केवलस्य 'ताद्रप्यम्' इत्यस्मन्मततुल्यता ।। विकारित्वं तु जीवानां अत्यन्तमसमंजसम् । शब्दपुद्गलवच्चैतत्प्रत्याख्येयमसंभवात् ।। तस्मान वेदान्तविदो वदन्ति
मोक्षं न साङख्या न च सौगताद्याः । इत्यक्षपादाभिहितोऽपवर्गः श्रीयांस्तदत्यन्तविमोक्ष एव ।।
* माधः माध्यमिकानाम् । अन्यस्तु इतरेषां त्रयाणाम् ॥
शरीरानुगुणपरिमाणवानात्मेति हि तन्मतम् ॥ * सिद्धान्तेऽपि घटाकाशवत् शरीरौपाधिकः परिमाणोऽविरुद्धः । $ सम्यगिति शेषः ॥
। तद्रूपं-ख.