________________
438
न्यायमञ्जरी स चेतनश्चिता योगात् तद्योगेन विना जडः । *चितिर्नामार्थविज्ञानं कादाचित्कं तु तस्य तत् ॥ नार्थसंवेनादन्यत् चैतन्यं नाम विद्यते। तच्च सामग्रयधीनत्वात् कथं मोक्षे भविष्यति ।। जाग्रतः स्वप्नवृत्तेर्वा सुषुप्तस्यापि वाऽऽत्मनः । ज्ञानमुत्पद्यतेऽन्या तु चतुर्थी नास्ति तादृशी ॥ जाग्रद्दशायां स्वप्ने च बुद्धेः प्रत्यात्मवेद्यता। सुखं सुप्तोऽहमद्येति पश्चात्प्रत्यवमर्शनाती। तदा त्व वेद्य मानाऽपि सुषुप्ते धीः प्रकल्प्यते । तुर्यावस्था तु संवित्तिशून्यस्य स्थितिरात्मनः ।। तुर्यावस्थातिगं रूपं यदाहुः केचिदात्मनः । । प्रमाणागोचरत्वेन कल्पनामात्रमेव तत् ॥ .. संवित्प्रसवसामर्थ्य सामग्रीसन्निधानतः । यदि नामात्मनोऽस्त्यस्य तावता न चिदात्मता ॥
[ज्ञानोत्पत्त्यर्हत्वरूपचैतन्यरूपत्वेऽविरोधः] यदि तु दर्शनशक्तियोग्यतामात्रमेव पुंसश्चैतन्यमुच्यते-तहि तथा विधस्य तस्य कैवल्यस्यास्माकीनमोक्षसदृशत्वमेव । सत्संवित्प्रसवयोग्य तामात्रसंभवेऽपि दृश्येन्द्रियसंप्रयोगादिसामग्रीवैकल्या त् कैवल्याव स्थाया
* न हि चेतन-चैतन्यशब्दो पर्यायरूपी ।।
+ 'सुखमहमस्वाप्सम्' इति प्रत्यवमर्शः । तदा ज्ञानाभाववचनं तु विषयानवभासादित्याशयः ॥
-
1 तदभावादचेतनः-ख,
चेत्य-ख,
'यो-ख.
ब-ख,