________________
437
सितार
नवममाह्निकम्
प्रदीप्ते रागाग्नौ घननिबिडमाश्लिष्यति वधू प्रतीकारे व्याधेः सुखमिति विपर्यस्यति जनः ॥
[संसारे सुखसद्भावसिद्धान्तः] उच्यते-तदिदमति कृतकवैराग्यप्रकटनकोरुकुचोकौशलम्, आनन्दात्मनः प्रतिप्राणिसंवेद्यस्य सुखस्य निनोतुमशक्यत्वात् । अनिवृत्तेऽपि दुःख क्वचित् सुखसंवेदनात न दुःखाभावः सुखम्। निरभिलाषस्याप्यतकितोपनतसुखसाधनविषयसंपर्के सति 'सुखसंवेददर्शनात् ॥
- अभिलाषात्मकदु:खाभावः सुखमित्यपि न मनोज्ञम् । यस्तु दुःखाभावे क्वचित् सुखमित्यपि व्यपदेशः प्रशान्तरोगाणामिव पूर्व दर्शितः, स भाक्त इति न तावता स्वसंवेदनसाक्षिकसुखापह्नवः कर्तुमुचितः। मोक्ष तु नित्यसुख नसंभवत्प्रमाणत्वात् नाभ्युपगम्यते ॥
.
चम्
[ मोक्षस्य आत्मस्वरूपात्मकत्वम् ] अपि च मोक्षे सुखनस्ति न वेति विचार एष न प्रामाणिकजनोचितः। स्वरूपेण व्यवस्थानमात्मनो मोक्ष इति मोक्षविदः । तत्र आत्मस्वरूपमेव कीदमिति चिन्त्यय , न पृथङमोक्षस्वरूपम्। आत्मनश्च सुखदुःखबुध्यादयः आगन्तुका गुणाः, न महत्त्ववत् सांसिद्धिका इति निर्णीतमेतदात्मलक्षणे, सुखादिकार्येण चात्मनोऽनुमानादिति ॥
-
अत एव मात्मनः ॥
[आत्मनः चैतन्यरूपत्वनिरासः ] का पिलकथितचितिशक्तिस्वभावत्वमपि न युक्त
* अन्यथा हि अनुकूलत्वप्रतिकूलस्वादिज्ञानानां भ्रमत्वप्रसङ्गः। सर्व भ्रम एवेति वादस्तु असकृन्निरस्त एव ।
1 मतीव-ख,
नि-ख, ' दुः-ख, घ,
णं-ख.
क-ख.