________________
436
न्यायमञ्जरी [ केवलदुःखनिवृत्तरपि पुरुषार्थत्वम् ] यदुक्तं 'तादृशो मोक्षः प्रेक्षावतां प्रयत्नविषयो न भवतीति-तदपि न सांप्रतम्-प्रयोजनानुसारेण प्रमाणव्यवस्थानुपपत्तेः । न हि प्रयोजनानुवति प्रमाणं भवितुमर्हति ॥
यदि निरानन्दो मोक्षः प्रेक्षावतां न हचिरः-काम मा भूत -न .. स्वप्रमाणकमानन्दं त्वत्र कल्पयितुं शक्नुमः ॥
[ सुखरहितस्यापि मोक्षस्योपादेयत्वम् ] न च सत्मिना साधूनामनभिमत एव तथाविधो मोक्षः। न च. तदवाप्तये न प्रयतन्ते । ते ह्येवं विवेचयन्ति । दुःख संस्पर्शशून्य शाश्वतिक सुखसंभोगासंभवात्, दुःखस्य चावस्य हातंव्यत्वात् , विवेकहानस्य चाशक्यत्वात्, विषमधुनी इवैकपात्रे पतिते उभे अपि सुखदुःखे त्यज्यतामिति । अतश्च संसारान्मोक्षः श्रेयान , यत्रायमियान तिदुस्सहो' दुःखप्रबन्धोऽवलुप्यते, वरमियती कादाचित्को सुखकणिका त्यक्ता, न तस्याः कृते दुःखभार इयानूढ इति । तस्मान्न सुखोपभोगात्मको मोक्ष* इति ॥
[जागति सुखमेव भारतीति बौद्धपक्षः ] ___ अन्यस्त्वाह-तिष्ठतु तावन्मोक्षः! संसारेऽपि न सुखं नाम किंचि. दस्तीति सर्व एवायं दुखाभावमात्रे सुःखव्यवहारः। तथा हि
तृषा शुष्यत्यास्ये पिबति सलिलं स्वादु सुरभि
क्षुधार्तस्मन् शालीन् कबलयति 'मांस्पा कवलितान् ।
*अन्यथा मोक्षोऽपि स्वर्गादिवत् भोगरूपः स्यात् ॥
1 निरान दो-ख
शे-ख
३ ति-ख
संपा-ख