________________
435 नवममाह्निकम्
[सुखस्यावरणासंभवः] अविद्यावरणात् संसारे स्वप्रकाशसुखानुपलम्भ इति चेत्-न-प्रकाशस्य तुच्छेनावरितुमशक्यत्वात्। न च प्रकाशरूपं पारमार्थिकमात्मनः सुखं तद्विपरीततुच्छस्वभावे यमविद्या न परीतुमर्हति, मेघादिना दिनकरकिरणा वरणावधारणात् ॥ .
अविरलगवलमलीमसं बलाहकव्यूहपिहितरविबिम्बम् । . तदपि न रजनीसदृशं दिनमिति सहसा मोहमहिमा ।।
*मेघा अपि रवेरन्ये स्वरूपेण च वास्तवाः ।
तत्त्वान्यत्वादचिन्त्या तु नाविद्याऽवरणक्षमा ।। तस्मान्न नित्यानन्दत्वमात्मनः सुवचम ॥
[ मोक्षस्य नित्यसुखरूपत्वे मुक्त्यसंभवः ] अपि च मोक्षे नित्यानन्दस्वभावे तद्रागेण प्रयतमानो मुमुक्षुः न मोक्षमधिगच्छेत् । न हिरागिणां मोक्षोऽस्तीति मोक्षविदः ॥
दुःखनिवृत्त्यात्मकेऽपि मोक्षे दुःखद्वेषात् प्रयतमानस्य समानो दोष इति चेत्-न-मुमुक्षोद्वेषाभावात्। रागद्वेषौ हि संसारकारणमिति च जानाति मुमुक्षुः, द्वेष्टि च दुःखमिति कथं संगच्छते ॥ .
सुखेऽप्यस्य रागो नास्त्येवेति चेत-न-स्वर्गनिविशेषेऽपवर्गे स्वर्गव द्वागस्य संभाव्यमानत्वात्। दुःखेन तु निविण्णस्य मुमुक्षोर्वैराग्यं जायते न दुःखविषयो द्वेषः। विरक्तस्य चास्य मोक्ष प्रति यत्नो भवति, न दुखं द्विषत इति न स मानो न्यायः ॥
* समाधानम्-मेघा इत्यादि । तत्त्वेत्यादि-मिथाभूता सदसदनिर्वचनीय! अविद्येति हि तन्मतम् ॥
+ दुःखकारणस्य रागस्य निवृत्त्या दुःखनिवृत्ति :। सुखे रागे तु नैवं वक्तुं शक्यम् ॥
1 य-
ख
स
-ख