________________
434
न्यायमञ्जरी . [मुक्तौ शरीरादीनामप्यङ्गीकारप्रसङ्गः]
यदि च 'आनन्दम्' इति वचनात् नित्यं सुखमात्मन इष्यते, तर्हि ब्रह्म' इति वचनात् व्यापकत्वमिव, 'विज्ञानम्'* इति वचनात् ज्ञानमपि नित्यमस्याभ्युपगन्तव्यम् । अतश्च सुखवत् ज्ञानस्यापि नित्यत्वात् संसारेऽपि नित्यसुखोपलब्धिः स्यात्। ततश्च धर्माधर्मफलाभ्यां सुखदुःखाभ्यामस्य नित्यस्य सुखस्य साहचर्यमनुभूयेत । अपि च
सुखवत ज्ञानवच्चास्य काम देहेन्द्रियाद्यपि ।
नित्यं प्रकल्प्यतामित्थं मोक्षो रम्यतरो भवेत् ।। अथ कार्य सुखज्ञानम्, हेतुस्तस्य विचिन्तनीयः- यत उत्पद्यत . इति । धर्माच्चेत् , सोऽपि किंप्रभव इति वाच्यम् । योगसमाधिज इति चेत् , तस्य स्वकार्यत्वात् स्वकार्यसुखसंवेदनावसानत्वान्न शाश्वतिकत्वं स्यात्। अप्रक्षयश्च धर्मस्य निरनुमानकः। न हि योगसमाधिजो धर्मः न क्षीयत इत्यत्र च किंचिदनुमानमस्ति । विपर्यये तु प्रसिद्धमनुमानम्, सर्वस्य कृतकस्यानित्यत्वदर्शनादिति। क्षीगे च धर्मे तत्कार्यज्ञानाभावात सदपि सुखमनुपलभ्यमान असतो न विशिष्यते ॥
[मात्मसुखस्य स्वप्रकाशत्वनिराकरणम् ] स्वप्रकाशं तत् सुखमिति चेत-न-संसारेऽपि तदुपलब्धिप्रसङगात् । शरीरादिसंबन्धः प्रतिबन्धहेतुरिति चेत-न-शरीरादीनामुपभोगार्थत्वात् । भोगार्थाः शरीरादयस्ते भोग प्रतिबन्धं विदधतीति न साध्वी कल्पना ॥ .
* विज्ञानम्-इत्याद्यजन्तम् । 'आनन्दम्' इतिपदममभिव्याहारात आनन्दपदस्य स्वतः पुंलिङ्गत्वेनाधिजन्तत्वावश्यकत्वात् ॥
+ सुख ज्ञानम्-सुखानुभवः ॥
1 तथा-च,
ति-ख,
३ ग-ख.