________________
433 नवममाह्निकम्
*नानिष्टोपरमार्थत्वात; अनिष्टस्यापि शान्तये ।
सन्तः प्रयतमाना हि दृश्यन्ते व्याधिखेदिताः ।। अतिदुर्वहश्चायं संसारदुःखभार इति तदुपशमाय व्यवस्यन्तः सन्तः न निष्प्रयोजनप्रयत्ना भवन्तीति अनैकान्तिको हेतुः ॥
[नित्यसुखसद्भावे आगमाः न प्रमाणम् ] • अथ आगमादवगम्यते-बिभुत्वेनेव, नित्यन सुखेनाविनाकृतः 'स्वात्मेति। तथा च पठ्यते-'विज्ञानमानन्दं ब्रह्म' इति
स्यादेतदेवम्-यद्येतदेव केवलं आगमवचनमश्रोष्यत । वचनान्तरमपि तु श्रूयते-'न ह वै सशरीरस्य सतः प्रियाप्रिययोरुपहतिरस्ति। अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः' इति ॥
[आगमवाक्यानामन्यथासिद्धत्वम् ] ननु ! भवत्पठितमागमवचनं अन्यथापि व्याख्यातं शक्यते । 'सशरीरस्य' इति प्रक्रमात् सांसारिके सुखदुःखे अनुकूलेतरविषयोपलंभसंभवे तदानी मशरीरमात्मानं न स्पृशत इत्यर्थः ॥ ___ हन्त ! तहि त्वदधीतमपि वेदवचनं 'आनन्दं ब्रह्म' इति संसारदुःखपरिहारप्रकरणादेव तद दुःखापायविषयं व्याख्यास्यते। न खलु व्याख्यानस्य भगवतः काचिदभूमिरस्ति । दृष्टाश्च दुःखोपरमे सुखशब्दप्रयोगाः ॥
चिरज्वरशिरो.दिव्याधिदुःखेन खेदिताः । सुखिनो वयमद्येति तदपाये प्रयुंजते ।।
* न-इत्यादि समाधानम् । इष्टप्राप्तिवदनिष्टनिवृत्तिरपि पुरुषार्थ एव ॥
1
आ-ख,
२
मा-ख.