________________
432
न्यायमञ्जरी *संवेदनसंस्पर्श आत्मानमुपपादयितुं यतेत ? सोपाधिसावधिकपरिमिता. नन्दनिष्यन्दात् स्वर्गादप्यधिकं अनवधिकनिरतिशयनैसर्गिकानन्दसुन्दरं अपरिम्लानतत्संवेदनसामर्थ्य चतुर्थ पुरुषार्थमाचक्षन्ते विचक्षणाः ॥
[मुक्तेरपि संसार एव वरम् ] यदि तु जडः पाषाणनिविशेष एव तस्यामवस्थायामात्मा भवेत,। तत्कृतं अपवर्गेण ! संसार एव वरम' स्तु! यत्र तावदन्तराऽन्तराऽपि दुःखकलुषितमपि स्वल्पमपि सुखमुपभुज्यते । चिन्त्यतां तावदिदं, किमल्पसुखानुभवो भद्रकः, उत सर्वसुखोच्छेद एव। तस्मानित्यसुख मात्मनो महत्त्ववदस्तीति आगमप्रामाण्यादभ्युपगम्यताम् । तच्च संसारदशायां अविद्यावरणवशेन नानुभूयते। तत्त्वज्ञानाभ्यासभावनाभिभूतनिरन्तराविद्यावरणस्त्वात्मा तस्यामवस्थायां तदनुभवतीति ॥
[ सिद्धान्ते मुक्तौ सुखाभावे प्रमाणम् ] , . तदिदमनपपन्नम - आत्मनो नित्यसुखसत्तायां प्रमाणाभावात । प्रत्यक्षं तावन्नास्मदादीनामन्येषां वा केषांचिदस्मिन्नर्थे प्रभविष्यतीति केयं कथा? अनुमानमपि न संभवति, लिङगलेशानवलोकनादिति ॥
[ नित्यसुखसद्भावे अनुमानं न प्रमाणम् ] ननु ! उक्तमेवानुमानणपवर्गाय, यत्र' प्रेक्षावतां प्रयत्नः। सुख सिद्धये हि बुद्धि मन्तो यतन्ते, नाश्मकल्पमात्मानं कर्तुमिति। तदयं इष्टाधिगमार्थः मुमुक्षोः प्रयत्नः, प्रेक्षापूर्वकारिप्रयत्नत्वात , कृष्यादिप्रयत्न वदिति ॥
* संवेदनम्-अनुभवः ॥
1वस्था-ख
व-ख,
३ यः-ख.