SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ 431 नेवममाह्निकम् [विशेषगुणानां मुक्तौ नाशस्यावश्यकता] यावदात्मगुणास्सर्वे नोच्छिन्ना वासनादयः । तावदात्यन्तिको दुःखव्यावृत्ति वकल्पते ॥ धर्माधर्मनिमित्तो हि संभवः सुखदुःखयोः । मूलभूतौ च तावेव स्तम्भौ संसारसद्मनः॥ तदुच्छेदे 'तु' तत्कार्यशरीराद्यनुपप्लवात् । नात्मनः सुखदुःखे स्तः इत्यसौ मुक्त उच्यते ।। . इच्छाद्वेषप्रयत्नादि भोगायतनबन्धनम् । उच्छिन्नभोगायतनः नात्मा तैरपि युज्यते ॥ प्राणस्य क्षप्पिपासे द्वे लोभमोहौ च चेतसः। शीतातपौ शरीरस्य षडूमिरहितः शिवः ॥ तदेवं नवानामात्म विशेषगणानां निर्मूलोच्छेदोऽपवर्ग इति यदुच्यते, तदेवेदमुक्तं भवति तदत्यन्तवि मोक्षो'sपवर्ग इति ॥ [मुक्तिकालिकात्मस्वरूपम् ] ननु ! तस्यामवस्थायां कीदृगात्माऽवशिष्यते ? स्वरूपैकप्रतिष्ठानः परित्यक्तोऽखिलैर्गुणैः ।। *उमिषटकातिगं रूपं तदस्याहर्मनीषिणः । संसारबन्धनाधीनदुःखक्लेशाद्यदूषितम् ।। - [वेदान्तिसंमतमोक्षनिरासः ] अत्र तावत् वेदान्तिन आहुः-नायमिदृशो मोक्षः प्रेक्षावतां प्रयत्नभूमिर्भवितुमर्हति। को हि नाम शिलाशकलकल्पं अपगतसकलसुख * ऊर्मिषटकमनुपदमुक्त क्षुत्पिपासालोभमोहशीतातपा इति ॥ 1 हि-च, ते-ज, गु-ख, * योगो-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy