________________
428
___ न्यायमञ्जरी दुःखे इति व्याख्यातम्। ततश्च सुखे प्रत्याख्याते दुःखमेवावशिष्यते । तच्चानेन दुःखशब्देनैव निर्दिष्टमिति किं फलग्रहणेन ?
__ [उक्ताक्षेपपरिहारः ] उच्यते-न सुखलेशस्य संसारे जन्तुभिरन्तराऽन्तराऽनुभूयमानस्य प्रत्याख्यानाय दुःखग्रहणम् । किन्तु सर्वत्र तथात्वभावनोपदेशार्थम् ।' 'सोऽपि हि सुखलवः दुःखमेवेति भावयितव्यः, तत्साधनमपि सर्व . दुःखमेवेति मन्तव्यम् ॥
न तद्व्यवसितं पुंसां न तत्कर्म न तद्वचः। न तद्भोग्यं समस्तीह यन्न दुःखाय जायते ।।
[ दुःखे तारतम्यम् ] तदित्थं दुःखं उत्कृष्टं तिरश्चाम् , मध्यमं मनुष्याणाम् । होनं देवानाम् । हीनतरं वीतरागाणामित्यागमविदः। वीतरागाणां दुःखतानवं युक्तितोऽप्यवगम्यते, दुःखस्य रागनिबन्धनत्वात् ॥
तत्त्वतश्चिन्त्यमानं हि ? सर्व दुःखं विवेकिनः। विषसंपृक्त मधु वत् सुखं दुःखीभवत्यदः ॥ सुखाधिगमलोभेन यतमानो हि पूरुषः । सहस्रशाखमाप्नोति दुःखमेव तदर्जने ॥ एवं सर्वमिदं दुःखं इति भावयतोऽनिशम् । सर्वोपपत्तिस्थानेषु निर्वेदोऽस्य प्रवर्तते ॥
* संसारे सुखमेव नास्ति, सर्व दुःखमेवेति बौद्धाः। सिद्धान्तिनां पु अस्ति संसारे सुखलेशः। अन्यथा गुणगणनायां सुखस्य पाठो न स्यात् ॥
1 सन्न-ख,
स-ख,
घृत-चः