________________
अष्टममाह्निकम्
427 धर्मादेरात्मनि'स'मवायात् , फलस्य च पुत्रपश्वादेः अन्यत्र समवेत. त्वात् भिन्नाधिकरणत्वं कर्मफलयोरित्यपि न चोद्यम् ; मुख्यस्य सुखदुःखात्मनः फलस्य भिन्नाश्रयत्वानुपपत्तेः। सुखदुःखे ह्यात्मनि वर्तेते, धर्मा. अमौ च तत्स्थावेवेति ॥
*'दृष्टं नैव सुखस्य कारणमतस्तद्धतुरागेण किं ? ___ दुःखस्यापि न तन्निबन्धनमिति द्वेषस्तदर्थेष कः? तस्मात्कर्मनिमित्तकं फल मिति ध्यायन्न कुर्यात कृती सङर्ग कर्मणि येन दुस्तरमसौ संसारमापद्यते ॥
. [दुःखपरीक्षा ] बाधनालक्षणं दुःखम् ॥१-१-२१॥ बाधना पीडनं-सन्तापनम्। सा लक्षणमस्येति बाधनालक्षणं दुःखम् । तत्र मुख्ये दुःखे लक्ष्ये, लक्षणशब्दो यथाश्रुत एव । बाधनयव हि दुःखस्वरूपं लक्ष्यते--बाधयति दुःख यतीति । गौणे तु दुःखे शरीरादौ लक्ष्ये, 'बाधनालक्षणं-बाधनानुषक्तमिति ब्याख्येयम् ॥
[प्रत्येक दुःखलक्षणकथनाक्षेपः] ननु ! पूर्वसूत्रव्याख्यातेन फलग्रहणेनैव दुःखस्योपदिष्टत्वात् किमर्थं पुनरुपदेशः ? सुखप्रत्याख्यनार्थ इति चेत्-न-पूर्वापरविरोधात् । सकलप्राणभृदनुभवसाक्षिकत्वेन च सुखस्य प्रत्याख्यातुमशक्यत्वात् । तत्प्रत्याख्याने च विवक्षिते किमर्थं प्रमेयसूत्रे फलपदो पादानम् ? फले खलु सुख
* फलपरीक्षाया. प्रयोजनमाह-दृष्टमित्यादिना ।।
1 फलस-ख, घ, लो-ख.
'ष्टे-ख.
पीड-ख,
'बा-ख.