________________
426
न्यायमञ्जरी पभोगयोग्य'तां प्रतिपद्यते। अनियतफलं तु चित्रादि कैश्चिदुक्तम् । तच्च युक्तमयुक्तमिति वा तत्रैव परीक्षितम् ॥
[निषिद्धफलविचारः] निषिद्धस्य तु कर्मणः सर्वस्यैव प्रायेण परलोक एव फलम् । परदाराभिमर्षणादौ हि क्रियाफलं सुरतसुखादि सद्यः फलम्। निषेधविधिफलं तु नरकपतनं पारलौकिकम्। स्वर्गवन्नरकस्यापि निरतिशयदुःखा- . त्मनः, तदन्यथाऽनुपपत्तिपरिकल्पितदेशस्त्रमावस्य वा एतच्छरोरानुप भोगयोग्यत्वात्॥
तीव्र वेगनिर्वृत्तं तु कर्म विहितं इतरद्वा प्रत्यासन्नविपाकं इहैव. भवति, *नन्दीश्वरनहुषयोरिवेत्यागमविदः ॥
चोरब्रह्मघ्नादयश्च केचित् प्रत्यासन्नप्रत्यवायाः प्रायेण दृश्यन्त एवे. त्येवमेषां विचित्रः कर्मणां विपाकः ॥
[कर्मणां फलप्रदत्वप्रकारः] | यदपि चोच्यते-कर्मकाले फलं नास्ति, फलकाले कर्म नास्ति । कालान्तरे च फलस्यान्यत् प्रत्यक्षं कारणमुपलभ्यते सेवादिकमिति–तदपि पूर्व परिहृतम्। कर्मणां विनाशेऽपि तज्जनितस्य आत्मसंस्कारस्य धर्माधर्मशब्दवाच्यस्य भावात्। दृष्टस्य च सेवादेः कारणस्य व्यभिचारात अदृष्टकल्पनाया अवश्यंभावित्वात् ॥
* नन्दी नामकः तीव्रतपःफलतया तदैव गाणापस्यस्थानमवाप। एवं नहुषः तीव्रपापफलतया क्षणादेव स्वर्गाद्रष्टः। तथा हि श्रूयते-'अत्युत्कटः पुण्यपापैरिहैव फलमश्नुते' इति ॥
1 ग्य-ख.
यो-ख.