________________
अष्टममाह्निकम्
425 फलमित्युक्तम्। तदिदमनादिना प्रबन्धेन प्रवर्तमानं फलं 'पुनः पुनरुपभुज्यत इति महत: खेदस्य हेतुरिति भाव्यमानं निर्वेदवैराग्यादिमार्गेणापवर्गोपयोगितां प्रतिपद्यते ॥
आत्तमात्तं विजहतः त्यक्तं त्यक्तं च गृह्णतः । पुंसः फल'घ'टीयन्त्रं अहो कष्टः परिश्रमः॥
'] फलद्वैविध्यम् ) 'तत्पुनः फलं कर्मणा कि सद्य एवं संपद्यते, सालान्तरेण वा ? उच्यते-द्विविध कर्म-विहितं निषिद्धं च। तत्र विधिफलानां कालनियमो नास्ति। क्रियाफलं हि 'दोग्धि' 'पचति' इति समनन्तरमुत्पद्यमानं दृश्यते । विधिफलानां तु नैव नियम इति शब्दपरीक्षायां चित्रा. क्षेपपरिहारावसरे (पू-सं-657 निरूपितमेतत् ॥
. . .[विधिकले विशेषः ] विधिफलमपिःच किंचन चोदनावचनपर्यालोचनया सद्य इति निश्ची. यते, वृष्टिरिव कारीर्याः। किंचित् ऐहिकफलमपि कर्म वस्तुबलात् कालान्तरापेक्षं भवति, पुढेष्टयादि। न हि सहसैव निधिलाभवत् पुत्रलाभः संभवति, गर्भसंभवहेतुभूतभार्यापरिरम्भणादिक्रमापेक्षत्वात् ॥
ज्योतिष्टोमादि तु स्वर्गफलं कर्मफलस्वरूपमहिम्नव पारलौकिक. फलमवतिष्ठते । स्वर्गो हि निरतिशया प्रीतिः, तदन्यथानुपपत्तिपरिकल्पितः, कनकगिरिशिखरादि भोगदे।"शः। उभयथाऽपि नैतदेहो
* यद्यपि कृप्यादीनां क्रियाणामपि सद्यः फलं न दृश्यत इति शङ्का स्यात् परन्तु फलपर्यन्ततावत्क्रियाया एव पाकादिवदेकक्रियारूपत्वात् कृषः सद्य फलस्वम् ।।
1 पु
-ख, युज्यते पुनस्त्य-ख,
'प-ख.
दे-ख.