SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ 424 - भ्यायमञ्जरी शब्दविवर्तत्वं *तदनुगमाग्रहणादनुपपन्नम् ।। परमात्मोपादानत्वमपि न संभवति, तस्यैव निष्प्रमाणकत्वात् ॥ न च 'न कदाचिदनीदृशं जगत्' (पू.सं. 491) इति पादप्रसारिकामात्रं कर्तुमुचितम् ; सर्गप्रलयप्रबन्धस्य सथितत्वादिति ॥ अतश्चे पक्षान्तरदुर्बलत्वात यथोदितः सिद्धयति भूत सर्गः । तं यस्तु पश्यन्नपि निह्लवीत तस्मै नमः पण्डितशेखराय ।। अनादौ संसारे स्थितमिदमहो मूढमनसा जनित्वा जन्तूनां मरणमथ मृत्वापि जननम् । इयं सा दुःखानां सरणिरिति संचित्त्य कृतिना निधातव्यं चेतो जननमरणोंच्छेदिनि पदे ।। [ फलपरीक्षा] प्रवृत्तिदोषजनितोऽर्थः फलम् ॥ १-१-२० ॥ प्रवत्तिदोषास्तु व्याख्याताः। तज्जनितोऽर्थः फलमित्युच्यते । अर्थ पदग्रहणं गौणमुख्यभेदप्रदर्शनार्थम्। सुखदुःखे मुख्यं फलम् । तत्साधनं तु शरीरेन्द्रियविषयादि गौणम्। सर्व होदं प्रवृत्तिदोषाक्षिप्त * अनुगमः-कारणस्य कार्येऽनुवृत्तिः ॥ * भर्तृप्रपञ्चादीनां ब्रह्मपरिणामवादिनां मतमिदम् ॥ * कदाप्यनीदृशं न, किन्तु अनादिकालादेवमेवेति स्वभाववादिनः ॥ 1 -ख, प्र-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy