________________
अष्टममाह्निकम्
423 - इत्थं च तन्तुभिः पटः क्रियते, न तन्त्ववयवरंशुभिः* ; इतरथा ह्युत्तरोत्तरकार्यारम्भेऽपि पूर्वपूर्वकारणानपायात् मूर्तानामेकदेशत्वं स्यात्। न च तददृश्यत इति यथोक्त एव क्रमः श्रेयान् ॥
तदेवमनेकात्मसमवेतधर्माधर्मसंस्कारपरिपाकानुरूपप्रसरदीश्वरेच्छाप्रेर्यमाणपरमाणुक्रियानुपूर्वीनिर्वत्यमानद्व्यणुकादिकार्यप्रक्रमेण शरीराद्यवयविनिवृत्तिरिति स्थितम् ॥
[शरीरविषये पक्षान्तराणि ] एतद्विपरीतानि तु मतान्तराणि प्रमाणविरुद्धानि। तथाहि-नित्यमेव शरीरादि अनुत्पत्तिधर्मकमिति प्रत्यक्षविरुद्धम् । पृथिव्यादेरप्यवयवसन्निवेशविशिष्टत्वात्' कार्य त्वम् ईश्वरसिद्धौ निर्णीतम् ॥
आकस्मिक त्वमपि शरीरादेः कार्यस्य न युक्तम् ; कारणनियमोपलम्भात्, अनिमित्तायाश्च भावोत्पत्तेरनुपपत्तेः ।।
अभावात् भावोत्पत्तिरपि तादृगेव ॥
त्रिगुणात्मकप्रधानविकारमहदहङकारादिकारणकत्वमपि कार्यस्य पृथिव्यादेः प्रागेव प्रतिषिद्धम् ||
__ अनारब्धावयविरूपकार्याः परमाणव एवैते संचयविशिष्टास्सन्तः लोकयात्रां वहन्तीत्येतदपि न समीचीनम् ; संचयस्य भेदाभेदविकल्पाभ्यां अनुपपद्यमानत्वात् , परमाणूनां चातिसौम्यादप्रत्यक्षत्वात् ॥
*पौदगलिककार्यपक्षेऽपिप र्यायान्तरेण परमाणूनां कथनम्, अप्रमाणकत्वं वा॥
* न हि तन्तुर्नामावयवी पटकाले तिष्ठति ॥ + संचयविशिष्टाः–सङ्घातरूपा इत्यर्थः। इदं बौद्धानां मतम् ॥ * इदं जैनानाम् ॥
1 ष्ट-ख,
त्वात्-ख.