________________
422
भ्यायमञ्जरी मिलत्सु तत्कायें बहुत्वसंख्यायाः महत्त्वारम्भकत्वात् तत्प्रत्यक्षत्वं प्रसज्येत । न च तत्प्रत्यक्षत्वम् , अतिसूक्ष्मत्वात् । अतो द्वाभ्यां परमाणुभ्यां व्यणुकमादावुत्पद्यते ॥
[ द्यणुकस्थाप्रत्यक्षत्त्वम्, त्र्यणुकोत्पत्तिश्च ]
तच्च परमाणुवदप्रत्यक्षमेव, महत्त्वानुत्पादात्। ब्यणुकद्वयेन तु कार्यारम्भ इष्यमाणे तविशेषप्रसङगः व्यणुक इव तत्रापि महत्त्वो-' त्पत्तौ कारणाभावात्। अतः त्रिभिद्वर्यणुकः व्यणुकमारभ्यते। तत्र च बहुत्वसंख्यया महत्त्वमप्यारप्स्यते, प्रत्यक्षत्वं च भविष्यति । ततः परं. तु क्रमसामान्ये* प्रमाणमस्ति, लोष्टादि भङगे स्वा'वयवखण्डावयवदर्श नम्। क्रविशेष तु प्रमाणं नास्ति इत्थमारम्भ इति। यत्र वा दर्शन' मस्ति तत्र तदस्तु क्रमविशेषे प्रमाण मिति ॥ ..
[अन्त्यावयविनिरूपणम् ]
आरभ्यारम्भकत्वं नेष्यते, मूर्तानां समानदेशत्वविरोधात् । न हि परमाणवः प्रथमं कार्यमारभ्य, तदनु त एवोत्तरोत्तरकालं कार्याण्यार भन्ते। किन्तु यत्परमाणुनिवृत्तं कार्य व्यणुकं, तत् कार्यान्तरस्यारम्भकम तदप्यन्यस्य कार्यण्यत्येवं तावत्, यावत् परिपूर्णावयविनिष्पत्तिः॥
* समान्यतः अल्पपरिमाणात् महत्परिमाणः अवयवी भवतीति नियमः। न त्ववयवसंख्यादिनियमः॥
* आरभ्यस्य-कार्यस्य आरंभकत्वं-उत्तरोपादानत्वम्। कापालिकापेक्षया कपल: अवयवी। अयं च घटस्य उपादानम्। एवं च घटः कपालश्च द्वाववयवी समकाली स्याताम् । अतः घटावस्थितिवेलायां पूर्वावयविनो नाशः, अवयवानाभेवावस्थानं वक्तव्यमिति भावः ॥
1.भक्तेः सा-ख
मा-ख.