SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ अष्टममाह्निकम् 421 त इमे परमाणवः चेतनेच्छाप्रेरणमन्तरेण विशिष्टक्रमकमितरेतर सङघटनमलभमानाः कार्यसिद्धये न पर्याप्नुयुः, अचेतनत्वादिति चेतन एषामधिष्ठाना सकलभुवननिर्माण निपुणम तिरीश्वरोऽभ्युपगतः। तत्सि द्धये च सकलकुतर्कतिमिर तिरस्कारपूर्वकं पूर्वमेव निरवद्यमनुमानमुपपादितम् ॥ ईश्वरोऽपि नानेकात्मवृत्तिविपाकोन्मुखधर्माधर्मसंस्कारवैचित्र्यमननुरुध्यमानः विचित्रस्य जगतो जन्म निर्मातुमर्हती त्येतदपि दर्शितम् ॥ .. [परमाणुभिः जगदारम्भक्रमः] न च. सकृदेव सर्वे निर्वय॑मानकार्यपरिमाणानुगुणसङख्याः परमाणवः एकत्र संयोज्य कार्यमारभन्ते, किन्तु द्वयणुकादिप्रक्रमेण । सकृदारम्भे हि कुम्भे भज्यमाने कपालशर्कराकणचूर्णादिक्रममपहाय प्रथममेव परमाण्वन्तता भवेत् ; सर्वसंयोगस्य सर्वविभागेन सहसैव विनाशात् । अतश्च कर्परादिक्रमदर्शनं विरुध्येत । अविनष्टऽपि पटादौ तन्त्वाद्यवयवाश्रितत्वमुपलभ्यमानं कथं वा समयत ? परमाणूनामप्रत्यक्षत्वेन तदाश्रितत्व'स्य ग्रहीतुमशक्यत्वात् । परमाणनां घटस्य च मध्ये कार्यान्तरानारम्भादिति। तस्मात् व्यणुकादिप्रक्रमेण परमाणवः कार्यमारभन्ते ॥ [ द्वयणुकोत्पत्तिः] ननु ! द्वाद्वेव परमाणू प्रथमं संघटेते इत्यत्र का युक्तिरुच्यते ? बहुत्वसंख्यायाः महत्परिमाणकारणत्वदर्शनात, त्रिषु परमाणुषु प्रथम * तदा हीश्वरस्य पक्षपातप्रसङ्गः॥ 1 म-ख, सं-ख, ३ त्व-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy