________________
420
न्यायमञ्जरी इत्येवं तावत् , यावत् परमाणवो निरवयवा इति। यत्र यावतः कार्यजातस्य स्वावयवाश्रितस्य प्रत्यक्षेण ग्रहणं तत्र तदेव प्रमाणम्। 'तत ऊर्ध्वमनुमानम् ॥
[ परमाणुसाधकानुमानम् ] तदपि हि कार्य स्वावय वाश्रितम् , सावयव त्वात् , परिदृश्यमानकार्यवत् । निरवयत्वे तु तस्य परमाणुत्वमेव । परमाणुषु च सावयव... त्वस्य च हेतोरसिद्धत्वान्नावयवान्तरकल्पना। तेषां हि सावयवत्वे तदव. यवाः परमाणवो भवेयुः। न ते उत्पत्तिक्रमवत् विनाशक्रमेणापि पर... माणवोऽनुमीयन्ते। लोष्टस्य प्रविभज्यमानस्य भागाः, तद्भागानां च . भागान्तराणीत्येवं तावत यावदशक्यभङगत्वम दर्शनविषय त्वं च भवति। तद्यतः परमवयवविभागो न संभवति, ते परमाणव उच्यन्ते । तेष्वपि हि विभज्यमानेषु तदवयवाः परमाणवो भवेयुन ते । तदेतदेवं उत्पत्तिक्रमवत्" विनाशक्रमस्यदृशो दर्शनात् सन्ति परमाणवः ॥
. [परमाणूनामावश्यकता ]
अत्र हि त्रयो गतिः। अस्य घटादेः कार्यस्य निरवयवत्वमेव वा, अवयवानन्त्यं वा, परमाण्वन्तता वा ? तत्र निरवयवत्वमनुपपन्नम्, अव. यवानां पटे तन्तूनां, घटे च कपालानां प्रत्यक्षमुपलम्भात् । अनन्तावयव योगित्वमपि न युक्तम् , मेरुसर्षपयोरनन्तावयवयोगित्वाविशेषेण *तुल्य. परिमाणत्वप्रसङगात्। तस्मात्परमाण्वन्ततैव युक्तिमती॥
* अवयवपरंपरायाः कुत्रचिद्विश्रान्तौ सत्यां अधिकावयवत्वान्महत्वम्, न्यूनावयवत्वात् अल्पत्वं च वक्तुं शक्यम् ।
व-ख,
1 त-ख, 5 तदेवमुत्पत्ति-ख.
नु-ख,
दृश्य-ख,