________________
अष्टममाह्निकम्
419 वृत्तिसंभवात् , तस्यैव पुनः पुनरुत्पत्ति ब्रूमः । उत्पत्तिवन्मरणमपि । सोऽयमात्मन एव मृत्वा पुनर्जन्म प्रेत्यभाव इति ॥
[ नित्यस्याप्यात्मनः जन्ममर गोपपादनम् ] नन् ! जन्ममरणे उभे अपि नित्यत्वादात्मनः न संस्तः इत्युक्तम्सत्यम् – शरीरादिसंयोगवियोगयोस्तु तथाभिधानान्न दोषः। मरणंआत्मनः भोगायतनदेहेन्द्रियादिवियोग उच्यते। जन्म तु तत्संबन्धः। ते एते विपच्यमानकर्माशयानुरूपेण देहेन्द्रियादित्यागोपादाने एव मरणजन्मनी क्रियाभ्यावृत्त्या भवन्ती प्रेत्यभाव इत्युच्यते। स एव च संसारः । तदित्थमनुध्यायतः कस्य सचेतसो निर्वेदो नोदियात् । तदुक्म्... जरावियोगमरणव्याधयस्तावदासताम् ।
जन्मैव किं न धीरस्य भूयो भूयस्त्रपाकरम् ।।
. [ देहेन्द्रियादिरचनाप्रकारः] . अथ यरुत्पद्यमानैर्देहेन्द्रियादिभिरात्मनः संबन्धः, तेषां कथमुत्पत्तिरित्युक्तं सूत्रकृता - 'व्यक्तात् व्यक्तानामुत्पत्ति, प्रत्यक्षप्रामाण्यात्' (न्या-सू-4-1-11) इति। व्यक्तादिति 'का'पिलाभ्युपगतत्रिगुणात्मकाव्यक्तरूपकारणनिषेधेन* परमाणूनां शरीरादौ कार्ये कारणत्वमाह ॥
तथा हि-पार्थिवं, आप्यं, तैजसं, वायवीयमिति चतुर्विधमिदं कार्य स्वावयवाश्रितमुपलभ्यते । तत्र यथा घट: सावयवः कपालेष्वाश्रितः, एवं कपालान्यपि सावयवत्वात्तदवयवेषु, तदवयवा अपि तदवयवान्तरेषु
* व्यक्तादेव व्यक्तानामुत्पत्तिः, न तु अव्यक्तादिति सूचनेनेत्यर्थः ।।
1 सारे-ख,
क-ख.