SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ 418 भ्यायमञ्जरी वर्गानिके परीक्ष्यते। मिथ्याज्ञाननिनिताः खल्वेते दोषाः। तस्मिन सम्यग्ज्ञानप्रभावनिहते हेतोरभावान्न भवन्त्येवेति ।। . [दोषस्य एकत्वशङ्कापरिहारौ] ___ ननु ! एवं प्रसवविनाशकारणयोरेकत्वात* एक एव दोषो भवेदिति त्रित्वं हीयेत-न-अनुभवसिद्ध'भेदत्वात्। अनुभूयते हि रागद्वेषमोहाना. मितरेतरविभक्तं स्वरूपम्। कारण त्वं तु न प्रयोजकम् , एकस्मादेव ज्वलनसंयोगात् उत्पद्यमानानां विनश्यतां च पार्थिवपदार्थवृत्तीनां गन्धरस रूपस्पर्शानां नानात्वदर्शनात् । अतः सूक्तं दोषणां त्रैराश्यमिति । संसारकाराभवनप्रवेश मार्गास्त एते त्रय एव दोषाः । एषां प्रहाणोद्यममादधानः. ' न जन्ममृत्यू पुनरभ्युपैति ।। [प्रेत्यभावपरीक्षा ] पुनरुत्पत्तिः प्रेत्यभावः ॥ १-१-१९॥ कस्येयं पुनरुत्पत्तिरुच्यते, आत्मनः शरीरस्य वा ? तत्रात्मनो नित्य त्वादुत्पत्तिरेव नास्ति, का कथा पुनश्शब्दार्थस्य ? शरीरस्य तु उत्पत्ति रस्ति, न तु पौनःपुन्येन । न हि मृतं शरीरं तदेव पुनरुत्पद्यते । तस्मात् पुनरुत्पत्तिः प्रेत्यभाव इत्यवाचकं सूत्रम्-उच्यते-पुनश्शब्दार्थस्य यत्नत उपदिष्ट स्य परिहर्तुमशक्यत्वात् । तस्यैव निर्वेदोत्पादद्वारकापवर्गोपयोगयोग्योपदेशत्वात् । आत्मनश्च स्थायित्वेन क्रियाभ्या ___* मिथ्याज्ञानस्यैव हेतुत्वं, तदभावस्य च विनाशकत्वम् ॥ 1 त्वा-ज, ' देष्ठव्य-च, आ-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy