SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ अष्टममाह्निकम् 429 निविण्णस्य च वैराग्यं विरक्तस्य च देहिनः। क्लेशकर्मप्रहाणादिद्वारो निःश्रेयसोदयः॥ [ दुःखस्य फलरूपत्ववर्णनफलम् ] . ननु ! एवं तहि फलग्रहणं न कर्तव्यम् , दुःखपदे' नैवं गतार्थत्वादित्युक्तम्-मैवम्-तस्यान्यप्रयोजनत्वात् । प्रवृत्तिदोषजनितत्वेन "सुखदुःखे भावयितव्ये अभ्यासेन च वर्तमाने इति। कर्मदोषजनितत्वेन हि फलमनुचिन्तयतः तत्कारणयोरनुकूलप्रतिकूलयोरस्य रागद्वेषौ मा भूताम् । अभ्यावृत्त्या च ससाधनस्य फलस्य हानोपादानस्रोतसोह्यमानः तत्रात्यन्ताय निविद्यतामिति फलग्रहणम्। तदेवं अन्यथा फलस्य निःश्रेयसोपयोगित्वम् , अन्यथा तु फलत्वे सत्यपि दुःखस्येति ॥ [ दुःखस्वरूपनिगमनम् ] दीर्घस्य दुःखस्य निमित्तभूतं __ सुखं च दुःखात्मकमेव सर्वम् । मुमुक्षुणा हेयतया विचिन्त्यं : *देहादि दुःखान्तमिदं प्रमेयम् ।। इति निपुणमतिर्यो दुखमेवेति सर्व परिहरति शरीरे क्लेशकर्मादिजालम् । अजमजरमनन्तं चिन्तयन्नात्मतत्त्वं । गतभयमपवर्ग शाश्वतं सोऽभ्युपैति || ॥ इति श्री भट्टजयन्तकृतौ न्यायमञ्जयां अष्टममाह्निकम् ॥ * द्वादशविधप्रभेयेषु आयन्तवर्जम् ॥ 1 खोपदेशे-च, हि-ख, 'त-ख, तत्त्व-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy