________________
414
न्यायमञ्जरी दानपरित्राणपरिचरणरूपा त्रिविधा शरीरेण प्रवृत्तिरितीयमपि दर्शावधव। एषा च स्वर्गसदनद्वारसोपानकल्पा॥
[ प्रवृत्तेः द्विविधत्वम् ] सेयमुभयतो वितिभंदा प्रवृत्तिः संक्षेपतो द्विविधैव, विधिनिषेधात्मकतदवगमोपायदात्। विधिनिषेधा'वगमशरण एव हि सदस- . कर्मावगमः। तत्र विहितानुष्ठानं स्वर्गाय, निषिद्धाचरणं नरकायेत्येवं सुखदुःखोपभोगस्थानशरीरेन्द्रियाद्य भि'सम्बधनिबन्धनमेषा प्रवृत्तिर्भवन्ती संसारस्य परमं कारणं भवति ॥
[प्रवृत्तर्धर्माधर्भहेतुत्वम् ] | यो ह्ययं देवमनुष्यतिर्यग्योनिषु शरीरसंसर्गः, यश्च प्रतिविषयं बुद्धि- . संसर्गः, यश्चात्मना सह मनसस्संसर्गः स सर्वः प्रवृत्तेरेव परिणामविभवः । वत्तेश्च सर्वस्याः क्रियात्वात् क्षणिकत्वेऽपि तदुप'ग'तो धर्माधर्मशब्दवाच्यः आत्मसंस्कारः कर्मफलोपभोगपर्यन्तस्थितिरस्त्येव । न च फल. मदत्त्वा धर्माधमौं क्षीयते । अन्त्यसुखदुःखसंविद्विरोधिनौ हि धर्माधर्मावदाहरन्ति । न च जगति तथाविधं किमपि कार्यमस्ति वस्तु, यन्न धर्माधर्माभ्यामना क्षिप्तसंभवमिति तदुच्छेदे मुमुक्षुणा यत्न आस्थेयः॥
इति वितनुतः पुण्यापुण्यप्रवृत्तिसमुद्भवौ
निगल वदिमौ धर्माधमौ रुजं भवबन्धने । यदि निरवधेर्युःखस्यान्तं चिकीर्षसि सर्वथा परिहर मनोवाक्कायानां प्रवृत्तिमनर्गलाम् ॥
* सुखदुःखयोरुभयोरपि हेयत्वात् , तद्धेतुभूतौ धर्माधर्मावपि हेयावेव ।। __1 धका-ख. ' नमि-ख, ३ भूमि-ख-घ, हि-ख, मा-ख, म-ख.