________________
415
अष्टममाह्निकम्
[ दोषपरीक्षा]
, प्रवर्तनालक्षणा दोषाः ॥२-२-२७ ॥
प्रवर्तना प्रवृत्ति प्रति प्रयोजकता' । सा लक्षणं येषामिति प्रवर्तनालक्षणा दोषाः। दोषप्रयुक्तो हि पुरुषः पुण्ये कर्मणि, पापे वा प्रवर्तते ॥
[ दोषस्यानुपदेश्यत्वशङ्कापरिहारौ ] • ननु ! प्रत्यात्मवेदनीयतया दोषाणां स्वरूपमपरोक्षमेव। तत् किमर्थमे षां लक्षणतो रूपं निरूप्यते-सत्यम्-प्रत्यात्मवेहनीयत्वेऽपि यदेष प्रवर्तनालंक्षणत्वमुपदिश्यते, तदनेन रूपेण संसारकारणत्वज्ञापनार्थम्। धर्माधर्म निर्मि तो हि शरीरादिदुःखाधिष्ठानसंबन्धः। तद्वीजस्य च कर्मणः कारणं दोषाः कर्मणि पुमांसं प्रवर्तयन्तो भवन्तीति प्रवर्तनालक्षणा इत्युक्ताः ।
परसन्तान वतिना दोषाणां अप्रत्यक्षत्वात् तत्प्रतीतये प्रवर्तनालक्षणत्वकथनमिति त्वपव्याख्यानम्-अल्पप्रयोजनकत्वादिति ॥
[दोषाणां विभागः] तेषां दोषाणां त्रयो राशयो भवन्ति, रागः द्वषः मोहः इति। तत्रानुकुलेष्वर्थेषु अभिलाषलक्षणो रागः। प्रतिकूलेष्वसहनलक्षणः द्वेषः। वस्तुपारमार्थ्यापरिच्छेदलक्षणो मिथ्याध्यवसायो मोहः॥
* सन्तानः-आत्मा। बौद्धप्रभावात्प्रयुक्तः शब्दः ॥
1 त्तिः-ख,
य-ख,
' तत्किमेते-ख,
विहि-ख-घ.