________________
412
न्यायमञ्जरी वायिकारणत्वात्। अतश्च विषयानुभवजन्येऽपि सुखादौ मनस्संयोगः कारणम् ॥
सुखादीनां च *बोधस्वरूपत्वं स्वसंवेद्यत्वं च निरस्तम् । अतस्तदुपलब्धौ मनस एव कारणता ।।
[मनसः संस्कारविशेषवत्वम्, हेयत्वं च] तदिदं मनः पूर्वकृतशुभाशुभकर्म संकारवताऽऽत्मना तद्वशादेव शरीरदेशे संयोगं प्रतिपद्यते। तत्रैव च जीवनव्यवहारः। विपच्यमानकर्माशयसहि'तः आत्ममनस्संयोगो जीवनमिति हि वदन्ति। संयुक्तं. चात्मना मनः तेषु तेषूपपत्तिस्थानेषु नानाविधभोगसाधनतया संसार: कारणं भवति। नित्यत्वादात्ममनसोः अनादित्वाच्च संसारस्य नेदं चोदनीयं-प्रथममेव कथं आत्ममनसोस्सं योग इति। न हि प्रथमो नाम कश्चित् काल: समस्ति ; आदिसर्गस्यापि पूर्वसर्गसापेक्षत्वात् ।। ईश्वरोऽपि हि कर्मापेक्ष एव विचित्रस्य जगतः स्रष्टेति निर्णोतमेतदिति कृतं विस्तरेण ॥
विदधत्सुखादिभोगं वहच्च तरलैन्द्रियाश्व सारथिताम् । बन्धनिमित्तं मन इति मनस्विना यत्नतो हेयम् ॥
- इति बुद्धि परीक्षा -
* बौद्धादिसंमतमिदम् ।। * संस्कार:-भावनातिरिक्तः संस्कारविशेषः ।।
प्रथममेव-प्राथमिक एवेत्यर्थः ।। $ 'इन्द्रियाणि हयानाहुः' इति श्रुतिः ।।
1 तस्य-च,
सं-ख.