________________
अममाह्निकम
द्रव्यं च तत् , वेगादिगुणयोगात् ; क्रियाव त्वाद' नाश्रितत्वाच्च ।।
अचेतनं च तत् , कारणत्वात्, इत रथा' ह्येकत्र शरीरे चेतनद्वय समावेशात् अव्यवहारः स्यादिति । तस्मादेवंरूपं मनः ॥
साङख्योक्तं सु तस्य रूपमयुक्तमिति तत्प्रक्रियानिषेधादेव व्याख्यातम् ।।
[ मनस्साधकहेत्वन्तराणि ] ___ अन्यान्यपि स्मृत्यनुमानागमसंशयप्रतिभास्वप्नोहज्ञानानि, आन्तरसुखदुःखेच्छाद्वेषादिविषयग्राहीणि च ज्ञानानि मनसो लिङगानि सन्त्येव । तेषां बाह्यन्द्रियव्यापारसाध्यत्वासंभवात् करणरहितायाश्च क्रियाभिनिवृत्तेरदर्शनादिति ।।
. मानसानि ज्ञानानि ] स्मृतिस्तावन्मनोजन्यैव । अनुमानागयज्ञानं तु परोक्षार्थविषय स्वात मानसम्। संशयस्तु मानसोऽपि कश्चिद्वक्ष्यते। प्रतिभा मनासी दशितैव-'श्वो मे भ्राताऽऽगन्ता' इति। स्वप्नज्ञानमुपरतेन्द्रियग्रामस्य भवत् कथं नाम न मानसम् ||
तर्कोऽपि संशयवत् क्वचिद्विषये मानसो भवत्येव । सुखादीनां तु ज्ञप्तिवत् उत्पत्तिरपि मनोनिबन्धनैव। कार्यणामात्मगुणानामुत्पत्तौं प्रत्यासन्नकारणान्तरसंभवेऽपि आत्ममनस्संयोगस्यावधृतसामर्थ्यस्यासम.
* मनसः तत्रात्यन्त अपेक्षितत्वात मानसभित्युच्यते । कारणं तु व्याप्तिज्ञानम् शब्दश्च यथासंख्यम् ॥
२ रेषां-ख-घ,
३
अन-ख.