________________
410
न्यायमञ्जरी सूच्यभिद्यमानकोकनददळकदम्बकालवदतिसूक्ष्मत्वात् कालस्य क्रमस्तत्र न विभाव्यते। भवितव्यं* तु तेनेति ॥
[स्मृतिकारणतयाऽपि मनस्सिद्धिः] यदि कारणान्तरनिरपेक्षचक्षुरादिकरणसाध्या एव रूपादिविषयोपलब्धयः, तदुत्तरकालमुपहतकरणानामपि कथं स्मरणादिरूपस्तदवमर्शः? . अतो ननं नयनादिवत् करणान्त रमविकलं तद्ग्राहि विद्यते ॥
[ मनसः अणुत्वादिः] अध्यापकं च तत् । व्यापित्वे न हि बद्धीनां योगपद्यं निवर्तते । । अस्ति चायं व्यवहारः उक्तेऽपि क्यचिद्वचसि कश्चिदाह, 'नाहमेतदोषम, अन्यत्र मे मनोऽभूत्' इति । तस्मान्न व्यापकं मनः ।।
प्रतिशरीरमेकं च, तदनेकत्वे पुनरपि ज्ञानयोगपद्यानपायात् ॥ कियावच्च तत्, निष्क्रियेणेन्द्रियाणामधिष्ठातुमशक्यत्वात् ।। मूर्त च तत् , अमूर्तस्य क्रियानुपपत्तेः ॥
मूर्तत्वे सति नित्यं च तत् निरवयवत्त्वात् , अनाश्रितत्वाच्च मुर्तत्वं त्वनित्यतायामप्रयोजकमिति वक्ष्यामः ॥
निरवयवं च, तदवयवकल्पनायां प्रमाणाभावात् ।।
वेगवच्च, तदाशुसंचारात्। आशुसंचारमन्तरेणोपलधि शैघ्रय स्य दृष्टस्यानुपपत्तेः ।।
इन्द्रियसंयोगि च तत् , द्रव्यत्वात् ।।
*प्रथमदलभेदनस्य द्वितीयदलभेदनस्य च हि कालभेदः अवर्जनीयः ॥,
1 ह-ख,
रं-ख
देय-ख-घ.