SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ 468 न्यायमञ्जरी भवमरुभवस्तापैः 'या जा तमेव युनक्ति साव्यसनजननी जह्यादेनां परमार्थवित् ॥ - इति बुद्धि परीक्षा -- [ मनःपरीक्षा] युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ॥ १-१-१२ । मनसो यदेव सत्त्वे प्रमाणं, तद्गम्यत्वमेवास्य लक्षणम् , समानेतर: जातीयव्यवच्छेदकारित्वात् ॥ [ मनसः प्रत्येकगणनायां हेतुः] ननु ! मनस इन्द्रियत्वात् तद्वर्ग एव . पठनं युक्तम्। किमर्थोऽये पृथङनिर्देशः ?-न-धर्मभेदात्। भौतिकानीन्द्रियाणि नियतविषयाणि । सगुणानां चैषामिन्द्रियभावः । मनस्तु न भौतिकम् , न नियतविषयम् । न चास्य *सगुणस्येन्द्रियभावः इति ॥ [मनसः अभौतिकस्वम् ] , तच्च न भौतिकम् , अकार्यत्वात्। अत एव न तद्गुणयोगि। न च नियतविषयम्। सर्वविषयत्वं त्वस्य सकलबाह्येन्द्रियाणामधिष्ठात. त्वत। तदनांधगम्यसुखादिविषयग्राहित्वाच्च । बाह्येन्द्रियाणि हि मनोs धिष्ठितानि स्वविषयेषु प्रवर्तितुमुत्सहन्ते चक्षुरादीनि, नान्यथा ॥ * गुणाः-गन्धरसरूपस्पशशब्दाः॥ 1 पापा-ख, 'नामतः-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy