________________
407
अष्टममाह्निकम् विभुरात्मा, न भूतसङघातस्वभावः कार्यस्तस्या आश्रय इत्यात्मपरीक्षायां निर्णीतम्। गुणत्वमपि चास्यास्तत्रैव दर्शितम् ॥
___[बुद्धे राशुतरविनाशित्वे हेतुः] ननु एवं तहि न बुद्धरनित्यत्वम् , विनाशकारणाभावात् । द्विविधो हि गुणानां विनाशहेतुः-आश्रयविनाशः, विरोधिगुणप्रादुर्भावो वा। नेहाश्रयविनाश, नित्यत्वादात्मनः । न च विरोधिनमस्याः कं चिद्रुणमुपलभामहे-न-शब्दवदाशुविनाशित्वात्। नित्याकाशगुणोऽपि शब्दः शब्दान्तरमारभ्य यथा विनश्यति, तथा बुद्धिः बुद्धचन्तरमारभ्य विनश्यतीति तथा दर्शनात् कल्प्यते। यावांश्च कश्चन विनाशदर्शनभेदोपलम्भादिः शब्दस्यानित्यतायां न्याय उक्तः, स सर्वोऽपि बुद्धावपि योजनीयः ॥
[ज्ञानानामयोगपद्यकारणम्] अत एव न बुद्धीनामेकप्रमातृवृत्तीनां योगपद्य विद्यते, "वर्णानामिवैकवक्तप्रयुक्तानाम् । 'विनश्यविनश्यद्दशयोस्तु बुद्धयोराशु विनाशित्वेऽपि योगपद्यमनुभवादभ्युपेयत* इत्यलमतिविस्तरेण ॥
- बुद्धरनित्यतायां च प्रायेण सर्ववादिनामविवादः। तथा चाह जैमिनिः 'सत्संप्रयोगे पुरुषस्यन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षम्' इति ॥
[बुद्धेरपि हेयत्वम्] अचिररुचिवत्तस्मात् बुद्धिनिसर्गविनश्वरी__भवति जनकः स्वात्मा तस्याः स एव समाश्रयः ।
* अन्यथा कार्यकारणयोरसमानकालिकत्वापत्त्या क्षणिकवादतौल्यप्रसङ्गः ॥
1 यां-ख,
शब्दा-ख,
' कथमा-ख.