________________
406
.. न्यायमञ्जरी मवगम्य अमुष्मात कारणात् इदमीदर्श कार्यभुत्पद्यत इति बुद्धौ निर्धार्य *कारकाणि कर्ता नियुङक्त इति न निविषयः कारकव्यापारः॥
तदेवं सत्कार्यवादस्य निष्प्रमाणकत्वात् तन्मूला'न्वयादिहेतुसिध्य भावात् न प्रधानास्तित्वसिद्धिः। तदभावाच्च न तद्वितिः नित्याबुद्धिः। अपि तु ज्ञानोपलब्धिरूपैवेति सम्यक् सूत्रितं 'बुद्धिशलब्धि निमित्यनर्थान्तरम्' इति ॥
[बुझेरनित्यत्वम् ] इतश्चानित्या बुद्धिः-जानामि, ज्ञाप्यापि, अजासिषमिति उपजननापायधर्मतया पाकादिवत् कालत्रयेऽपि प्रकाशमानत्वात्। ज्ञान: व्यतिरिक्तायाश्च बुद्धरप्रतिभासात् ॥
अयं तु विशेषः। पाकादिक्रियाणां ओदनादिफलावच्छे इद्वारकं कालवैतत्यमपि भवति। उपलब्धस्तु वस्तुस्वरूपप्रकाशनमा परिसमाप्तप्रयोजनायाः कालवैतत्यं नास्त्येव। अत एवानित्यत्वेऽपि उत्पन्नापव. गिणीमेव बुद्धिमाचक्षते, शब्दवत् ; न घटादिवत् कालान्तरस्था यिनीमिति ॥
[बुद्धरात्मगुणत्वम् ] सा चेयं बुद्धिः आत्मान्तःकरणशब्ददीपेन्द्रियार्थाद्यनेककारककलाप. कार्याऽपि सती न बाह्येन बाह्यकर्मणि समवैति । न बाह्यकरणे चक्षुरादौ। नान्तःकरणे मनसि। किन्तु कर्तर्येव । कर्ताऽपि च नित्यः
* 'मृदं घटं करोति' इत्येव ध्यवहारात्, उपादानकारणेनेतरकारकसंबन्धात म दोष इति भावः ॥
1 लाद-च,
तृ-ख.