________________
405
अष्ठममाह्निकम् -सर्वस्य सर्वत्र चास्तित्वे नियतपदार्थप्रतिष्ठितहानोपादानादिव्यवहार सकल एव विप्लवेत ॥
- [सत्कार्यवादे असामञ्जस्यम् ] __ अपि च प्रायश्चित्तमेष तपस्वी तप्तकृच्छमतिकष्टं कथं चरिष्यतीति मह'न्मम मन सि कारुण्यम् । अन्नं च तावदयमश्नाति, अन्ने च *व!sस्तीति विड्भक्षणात् प्रायश्चित्तीयत एवायमिति अलं सत्कार्यवादप्रमादेन ॥
_ [ असत्कार्यवादे दोषोद्धारः] यत्पुनरभाणि-कारणानुपमर्दैन कार्यानुत्पादात् अभावाद्भावोत्पत्तिभवेत् । तत्र चानन्तरवृत्त्युत्पत्तिनियमो न स्यात् इति–तदप्ययुक्तम्मूर्तानां समानदेशविरोधात् कार्यकारणयोरेकदेशत्वं नेष्यते। नैतावता भावोत्पत्तिरभावाद्भवितुमर्हति, कार णाधी नतदुत्पाददर्शनात् । अत एवानन्तर्यनियमोऽप्युपपन्नः। न च कार्यकारणयोरभेदात् सत् कार्यमिति वक्तव्यम्। तयोः प्रत्यक्षसिद्धभिन्नस्वरूपत्वात् ॥
_ [ असंबद्धात्कार्योत्पत्तिनिरासः ] यत्तु निरलम्बना कारकप्रवृत्तिरिति चोदितम्-परिहृतं तत् भाष्यकारेण 'बुद्धिसिद्धं तु तदसत्' इति। वृद्धव्यवहारतः कार्यकारणभावा
... * 'तेज:पुरीषयोर्वचः' इत्यमरः ।।
+ ननु तत्तत्प्रागभावस्य तत्तत्कार्य प्रति कारणत्वाङ्गीकारात् अभावात् भावो. स्पत्तिर्दुर्वारेति चेत्, हेतौ पञ्चम्या अपि साधुत्वात् । अन्यथा तन्मते 'घटः मृत्पिण्ड एव वर्तते; न तु दण्डादिषु' इति निरूपणासंभवप्रसङ्गः ।।
1 न गतो-ख,
न्ते-ख,
णपदे-ख.