________________
404
भ्याथमञ्जरी ङगीकृतः स्यात् । न च घटात् 'घट उत्पत्तुमर्हति। शक्तेश्च कार्यमुत्पद्यत इत्यभ्युपगतम्। अतोऽन्यत् कार्यम् , अन्या च शक्तिः ॥
[ योग्यताया अद्विष्ठत्वम् ] "ननु ! वाच्य वाचक योश्शब्दार्थयोः', व्यङगयव्यंजल्योश्च दोपघटयोः उभयाश्रिता शक्तिर्दष्टेति कार्यकारणयोर प्यसाचु भवाधिष्ठाना* भवितुमर्हति। असति द्वितीये कार्याख्ये तदाश्रये कथमियमुभयाश्रिता स्यादिति ॥
नैतदेवम-यथादर्शनं शक्तेरभ्युपगमात। न चैकत्र दष्टं रूपमन्यत्रापि मृग्यते। वाच्यवाचकयोः व्यङगय व्यंजकयोश्च द्वयोः पृथक्त्वेन दर्शनादुभयाश्रिता शक्तिरङगीकृतेति हेतुद्वयस्यानपलम्भात् केव कारण वत्तिरेव शक्तिः। तत्कृतश्चोपादाननियम इति सिद्धम् ॥ ...
[असत्कार्यवादे स्वारस्यम् ] असत्कार्यपक्ष एवोपादाननियमविचारो युक्तः ।।
उत्पत्तौ खलु सिद्धायां उपादानं विचार्यते ।
सतस्तु नैव नास्तीति किमुपादानचिन्तया ।। ___ सत्कार्यवादे च सुतरामुपादाननियमो दुर्घटः; सर्वस्य सर्वत्र भावात् । सिकतातिलसरित्तीरकेदारव्यप्तबीजनियताङकुरादिक्रमो. त्पद्यमानतिलस्वरूपपर्यालोचनया तिलेष्विव सिकतास्वपि तैलसंभवात् ।
* आधाराधेयाभावादिवदिति शेषः । " 'असत्' इस्यस्य 'कारणे' इत्यादिः । तेन शशशृङ्गादिव्यावृत्तिः ।। * प्रकृतेरेकस्या एव सर्वोपादानत्वात् ॥ ६ सरित्तीरसिकताभ्यः तिलसस्यस्योत्पत्त्या सिकतानां तिलोपादानत्वात् ।।
1 प-च, स-ख,
. अनुवाद्य-ख, वि-ख.
'योः-ख,
पि सा नथमनु-ख,