SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ 403 • अष्टममाह्निकम् तैलार्थी सिकताः कश्चिदाददानो न दृश्यते । अदृष्ट्वा चाद्य नान्योऽपि तदर्थी तासु धावति ।। अन्वयव्यतिरेकौ च गोते व्यवहारतः । अनादिश्चैष संसारः इति कस्यानुयोज्यता ।। [ कारणस्य कार्यानुकूलशक्तिमत्त्वम् ] अथवा शक्तिनियमादेवोपादाननियम उपपत्स्यते ॥ शक्तिस्तु नित्या सूक्ष्मा च नेह काचिदुपेयते । तदभ्युपगमे नित्यं कार्योत्पत्तिप्रसक्तितः* ॥ किन्तु योग्यतावच्छिन्नस्वरूपसहकारिसन्निधानमेव शक्तिः। सैवेयं द्विविधा शक्तिरुच्यते- अवस्थिता, आगन्तुको च। मृत्त्वाद्यवच्छिन्नं स्वरूपं अवस्थिता शक्तिः । आगन्तुकी च, दण्डचक्रादिसंगरूपा । शक्तियकृता च कार्यनिष्पत्तिरसकृद्दृष्टेति तदर्थभिस्तु तदुपादानम् || - योग्यताऽपि नार्थान्तरं किंचित् , किन्तु वस्तुविशेष एवेत्येवं 'वस्तुविशेष नियमात् उपादाननियमसिद्धेः न सत् कार्यम् ॥ [ योग्यता न कार्यस्वरूपा ] न च शक्तिरेव कार्यमिति वक्तव्यम्। कार्यस्वरूपस्य ततः पृथ ग्भतस्य प्रतीत्या व्यवस्थापनात् । शक्तेश्च कार्यत्वे कार्यादेव कार्योत्पादोऽ * अकरणवेलायामपि तत्र शक्तिरस्तीति कथं वक्तुं शक्यम् ॥ + वस्तुस्वरूपसिद्धार्हतारूपा। न हि दण्डचक्रादिभिरपि पाषाणात् घटः कर्तुं शक्यः॥ 1 सद्वि-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy