SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ 402 न्यायमञ्जरी [शक्त्यात्मनापि कार्यस्य न सत्त्वम् ] शक्त्यात्मनाऽपि यदस्तित्वमस्योच्यते - अत्रापि चिन्त्यम् – केयं शक्ति नेति। यदि घटस्वरूपाद्भिन्नाऽसौ, तहि पररूपेण घटोऽस्ति, स्वरूपेण च नास्तीत्यसत् कार्यमुक्तं स्यात् । घटादभिन्नत्वे तु शक्तेः शक्तिरूपेण घटोऽस्ती'ति स्वरूपेणैव घटास्तित्वमुक्तं भवेत् । तच्च प्रत्यक्षविरोधानिरस्तम् ॥ [ असत्कार्यवादे दूषणोद्धारः] असत्करणपक्षे च यच्चोदितं-शशविषाणाद्यपि क्रियतेति-तत्तु वचनव्यक्त्यपरिज्ञानात्। 'यदसत्, तत् क्रियते' इति नेयं. वचन व्यक्तिः , अपि तु 'यत् क्रियते, तदसत्' इति || - [असतः कार्यस्य शशशृङ्गादिलक्षण्यम् ] स्वरूपसहकार्यादिहेतवो यद्विधायिनः । .. दृश्यन्ते, जन्यते तद्धि न व्योमकुसुमादिकम् ॥ *प्रागभावदशायां च हेतुव्यापारदर्शनम् । न तु प्रध्वंसवेलायां अतः कमनुयुंज्महे ।। ' उपादानं तु सर्वस्य यन्न सर्वत्र दृश्यते । तन्न कार्यस्य सद्भावात् , अपि त्वेवं निरीक्षणात् ॥ अद्यत्वे व्यवहारोऽपि मैवापूर्वः प्रवर्तते । यथोपलब्धो वृद्धेभ्यः स तथैवानुगम्यते ।। * प्रागसत्त्वमा कार्यस्वप्रयोजकम्, न त्वसत्त्वमात्रमित्यर्थः ।। 1 स्ति-ख, न-ख. |-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy