________________
अष्टममाह्निकम्
401
[अभिव्यक्तिस्वरूपविमर्शः] का चेयमभिव्यक्तिः ? किं कार्यात्मनाऽवस्थानम्, अथ. संस्थानविशेषः, उत प्रतीतिः ? इति ॥ .. यदि कार्यात्मनाऽवस्थानं, तत्पूर्व नाभूत्, तदधुना भूतमित्यसत्कार्यम्। पूर्वमपि वा यदि तदासीत् , तदा पुनः कारकवैफल्यम् ॥
. संस्थानमपि अवयवसन्निवेशविशेषः। स 'चासन्नेव क्रियते । अवयवास्तु सन्तीति कस्यात्र विवादः ? * न हि परमाणवोऽस्माभिर्नाङगीकृताः || . . .
प्रतीतिस्तु घटस्य चक्षुरादिकारकसामग्रयधीना, न मृत्पिण्डदण्ड. चक्रादिकारकचक्रलाध्येति, सा चक्रमूर्धनि घटस्य नास्त्येवेति असन् घटः ॥ .
दर्शनादर्शनाधीने सदसत्त्वे हि वस्तुनः ।
दृश्यम्यादर्शनात्तेन चक्रे कुम्भस्य नास्तिता ।। . चक्रमूर्धवत् प्रध्वंसदशायामप्यनुपलम्भात् घटस्य नास्तित्वमेवेति । अतश्च
'नासतो विद्यते भावः नाभावो विद्यते सतः' (गी. 2-16) इत्यप्रमाणकम, पूर्वापरान्तयोर्भावस्वरूपादर्शनात् ॥
* तावत्यर्थे सत्कार्यवादश्चेत्, इष्टापत्तिः ॥ + दृश्यस्यादर्शनम-योग्यानुपलब्धिः ॥
* भवदभिमतार्थ' इति शेषः। शशशृङ्गदितौल्यनिराकरणमात्रे तापर्यादिति हेतुः । पूर्वापरान्तौ-पूर्वोत्तरावधी॥
___1 न्नेव ते-ख,
म-ख.