________________
400
न्यायमञ्जरी किमिति च तदा' नोपलभ्यत इति चेत्–अनुमानेनापि यदुपलब्धं तत् किमनुपलब्धं भवति ? प्रत्यक्षेण तु तदनीमनुपलम्भोऽनभिव्यक्त. त्वात्। अभिव्यतिसम्पादन एव च कारकप्रयत्नसाफल्यम्। कार्य तु सदेवेति ।।
[कार्यस्वरूपसिद्धान्तः सत्कार्यवादनिरासश्च ] अत्राभिधीयते-केन तु रूपेण तदानी कार्य सदिति मन्यसे ? यदि कारकव्यापाराभिनिर्व]न सलिलाहरणाद्यर्थक्रियासमर्थन पृथुबुध्नोदराकारवता रूपेण चक्रमूर्धनि घटोऽस्तीति-तदाऽभिव्यक्तेनापि रूपेण सत्त्वात् अत्यन्ताय कारकव्यापारवैफल्यम्। इत्यमपि च कारकप्रवृत्तौ तद्व्यापा. ' रानुपरमप्रसङगः । किं हि तदोपलभ्य कारकाणि निवर्तेरन् , कार्यस्य प्रागुपलब्धत्वात् ॥
__ [घटस्य पूर्वं सत्त्वासंभवः] अथ मृत्पिण्डरूपेण तदानी घटोऽस्तीति कथ्यते, न तह्यसौ तदानी घटोऽस्ति, मृपिण्ड एव. सावस्ति । न ह्यन्यरूपेणान्योऽस्तीति शक्यते वक्तुम्। उष्ट्रोऽप्यसन मृत्पिण्डरूपेणास्तीति स्यात् ॥ '
अथोष्ट्र रूपमुत्तरकालमपि न निवर्त्यते, घटस्तु ततो निर्वय॑तेयद्येवं यदैवासौ निर्वय॑ते, तदैवास्ति, न ततः पूर्वमिति ॥
__ अथ पूर्व शक्तयात्मना तस्यास्तित्वं, इदीनी अभिव्यक्त्यात्मना क्रियते इनि-तदप्यनुपपन्नम्-अभिव्यक्तिरपि तत्स्वरूपादिन्ना, अभिन्ना वा? सती, असती वा ? इति विकल्प्यमाना न पूर्वोक्तं दोषमतिवर्तते ॥
* कार्यनिष्पत्तिर्हि कारकव्यापारावधिः ॥
1 च-ख,
वदो न स्व-ख.