________________
अष्टममाह्निकम्
399 असति च कार्ये, निरालम्बनः कारकव्यापारी भवेत् , न ह्यसौ मृत्पिण्डादिविषयो भवितुमर्हति । कार्य चासत् ॥
[ उपादानोपादेययोर्भेदानुपपत्तिः] अपि चाविद्यमाने कारणव्यतिरिक्ते च कार्ये जन्ये तत्कारणस्य मृत्पि. ण्डादेः घटादिकार्य जनितवतः किमिति न स्वरूपमुपलभ्यते ।
___ अथ स्वविनाशेन कारणं कार्यस्य जनकमिष्यते, तदियमभावाद्भावोत्पत्तिर्भवेत् । तस्यां च कुतोऽयं नियमः, यदनन्तरवृत्त एव मृत्पिण्डाभावः कुम्भनभिनिवर्तयति, न चिरातिक्रान्त इति। अतश्च परुत्मृत्पिण्डे नष्टे एषमः कुम्भोत्पादः स्यात् ॥
अथ स्वाव्यतिरिक्तमेव कारणेन कार्य जन्यते, तहि कारणस्य सत्त्वात् तदव्यतिरिक्तं कार्यं सदेवेति नासतः करणम् ॥
.. [कार्यस्य सदसद्रूपवनिरासः ]
सदसदपि न कार्य वक्तुं युक्तम्-सदसतोविप्रतिषेधेन एकत्र समावेशायोगात् । रूपभेदादविरोध इति चेत्-न-कार्यस्य विचार्यमाणस्यैकत्वात । तच्च तेनैव स्वेन कार्येण रूपेण सच्चेत , नासद्भवेत् । असच्चेत्, न सत् इति पररूपेण त्वसत्त्वं सर्वभावानामस्त्येव ॥ - अनुभयात्मकं तु वस्तु नास्त्येवेति तत्पारिशेष्यात् सदेव कार्यम् ॥
. . . * तिलेविति शेषः॥
। तदा हि 'मृदं करोति' इति व्यवहारःस्यात् । न तु 'घटं करोति इति ॥
* मृत्पिण्डघटयोरत्यन्तं भेदात् द्वयोरप्युपलब्धिः स्यात् ॥ 5 परत-यस्मिन् कस्मिंश्चित् ॥
1 चरन्-
ख
व
-ख.