SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ 398 न्यायमञ्जरी भूतानि सुखदुःखमोहवन्तीति सुभाषितम्। घटे पटे शकटे च सुखदुःखमोहाः सन्तीति कः प्रतिपद्येत? प्रकाशप्रवृत्तिनियमा अपि चेतनेष्वेव दृश्यन्ते, नाचेतनेष्वित्यसिद्धत्वाद्धेतोर्न प्रधानसिद्धिः॥ [ सत्कार्यवादपरिक्षा] अपि च सत्कार्यवादमूल एष तपस्विनां विभ्रमः सर्व सर्वत्रास्तीति । । ततोऽन्वयसिद्धं बुध्यमानास्ते प्रधान सिद्धावध्यवसिताः । सत्कार्यवादश्च विचार्यमाणः न समस्त्येवेति कुतस्त्या हेतुसिद्धिः ? [ कार्यकारणभावविषये विप्रतिपत्तिः] ननु ! सत्कार्यवादे कार्यकारणभावो भवति भावानां, नान्यथा । तथा हि-चतुष्टयो गतिरिह स्यात्। घटादिकार्य मृत्पिण्डादिना कारयेन क्रियमाणं' असद्वा क्रियते ? सद्वा? सदसद्वा ? अनुभयस्वभावं वा? इति ॥ [सांख्यैः असत्कार्यवादनिरासः ] तत्रासतः करणे खरविषाणादेपि करणं स्यात्। असत्त्वे हि घटस्य खरविषाणस्य को विशेषः? घटस्यापि प्रभाव प्रध्वंसाभावदशयोः असत्त्वाविशेषात् प्रागभावदशायामिव प्रध्वंसदशायामपि करणं भवेत् ॥ असत्करणे च नियतोपादानग्रहणं न प्राप्नोति। तैलार्थी तिलसर्षपानुपादत्ते, न सिकताः। असत्त्वे* च तैलस्य को विशेषः सर्षपाणां सिकताभ्यः ॥ ___* अन्वयदृष्टान्ताभावादिति हेतुः॥ 1 णमपि क्रियते-ख, कू-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy