SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ अष्टममाह्निकम् 397 दृष्टाऽस्मीति विरमतीति चेत-मैवम्-न ह्यसौ एकपत्नीव्रतदुर्ग्रहगृहिता। निस्सङख्यपुरुषोपभोगसौभाग्या *पण्यवनितेव, न वाऽसौ नियमेन व्यवहर्तुमर्हतीत्यास्तामेतत् ॥ [ महदादिसृष्टिक्रमनिराकरणम् ] • यच्च सत्त्वरजस्तमोभिः त्रिभिर्गुणैः समावस्थायाः प्रधानशब्द. व्यपदेशभा'जः प्रकृतेः' महानाम बुद्धिरुत्पद्यते इत्यादि प्रक्रियाजालमाल. पितम् - तत्सर्वं महान्धपरम्परान्यायप्रवृत्तगुरु पाठ क्रमोपनतमेव, न प्रमा. णमूलम् । कार्याद्धि कारणमल्पपरिमाणमुपलभ्यते; न तु विपर्ययः । स्वावयवाश्रितस्य घटपटादेर्दर्शनात् । तदवयवानां तदपेक्षयाऽल्पत्वात् । अन्यस्या मृदः महापरिमाणत्वमप्रयोजकम ॥ - [अहंकारादिसृष्टयनुपपत्तिः] अपि च-बुद्धिर्नाम विषयोपलंभः। अहङकारोऽप्यहंप्रत्ययरूपोs भिमानः बुद्धिविशेष एव । · तेन बाह्यानीन्द्रियाणि जन्यन्ते, गन्धादयश्च गुणाः, गुणैश्च पृथिव्यादीनि भूतानीति महाव्यामोहः। इदं च चित्रम्विषयजन्या हि सुखादयः प्रसिद्धाः। तेऽद्य सुखादिजन्या विषयाःसंवृत्ता • इति नवेयं विश्वामित्रस्येव सांख्यमुनेः सृष्टिः ॥ [प्रकृतिसद्भावे प्रमाणाभावः] - न च प्रधानास्तित्वमपि प्रमाणवत, अन्वयादिहेतूनामसाधनत्वात् । चेतनानामपि हि कामं भवेदपि सुखदुःखमोहान्वितत्वम्। अचेतनानि * प्रकृतिः किल सर्व रणी एका ।। * सुखदुःखमोहात्मिका हि प्रकृतिरुच्यते ॥ 1 ग्भिः -ख, पर्व-च.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy